सामग्री पर जाएँ

पृष्ठम्:Matta Vilasa Prahasanam Mahendra Vikrama Ed. Ganapati Sastri T.S. University of Travancore 50.pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८ मत्तविलासप्रहसनम्


 कपाली-एवंविधं सुवर्णभाजनं केन कृतम् ।
 उन्मत्तकः-[] एदिणा शुवण्णवण्णपडावुदेण शुवण्णकारात्तएण किदं त्ति भवअं ! शुवण्णभाअणं त्ति भणामि ।
 शाक्यभिक्षुः- []किं भणासि |
 उन्मत्तकः- [] शुवण्णभाणं त्ति ।
 शाक्यभिक्षुः- [] किमअं उम्मत्तओ ।
 उन्मत्तकः- []उम्मत्तओ त्ति बहुशो एवं शदं शुणोमि । एवं गहिअ दळिशेहि उम्मत्तअं । (कपालिने कपालं प्रयच्छति । )
 कपाली- ( कपालं गृहीत्वा ) अयमिदानीं कुड्येनान्तर्हितः । शीघ्रमनुगम्यताम् ।
 उन्मत्तकः- [] ळध्दप्पशादे ह्नि ।

(निष्कान्तो जनोन्मत्तकः


शाक्यभिक्षुः - []अहो अच्छरिअं । परवक्खस्स ळाभेण अहं परितुट्ठो ह्नि ।


  1. एतेन सुवर्णवर्णपटावृतेन सुवर्णकारावुत्तेन कृतमिति भगवन् ! सुवर्णभाजनमिति भणामि ।
  2. किं भणसि ।
  3. सुवर्णभाजनमिति ।
  4. किमयमुन्मत्तकः ।
  5. उन्मत्तक इति बहुश एतं शब्दं शृणोमि । एतद् गृहीत्वा दर्शयोन्मत्तकम् |
  6. लब्धप्रसादोऽस्मि ।
  7. अहो आश्चर्यम् । परपक्षस्य लाभेनाहं परितुष्टोऽस्मि ।