पृष्ठम्:Matta Vilasa Prahasanam Mahendra Vikrama Ed. Ganapati Sastri T.S. University of Travancore 50.pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भत्तविलासप्रहसनम् । शाक्यभिक्षुः- (क) किं एदं पि अब्भत्थणीअं । किं दे पिअं करोमि । कपाली-- यदि मे भगवान् प्रसन्नः, किमतः परमह- मिच्छामि। शाक्यभिक्षुः -- (ख) गच्छामि दाव अहं । कपाली- गच्छतु भवान् पुनदर्शनाय । शाक्याभक्षुः-- (ग) तह होदु । (निष्क्रान्तः। ) कपाली--प्रिये देवसोमे! गच्छावस्तावत्। (भरतवाक्यम् ) शश्वद् भूत्यै प्रजानां वहतु विधिहुतामाहुतिं जातवेदा वेदान् विप्रा भजन्तां सुरभिदुहितरो भूरिदोहा भवन्तु । उद्युक्तः स्वेषु धर्मेष्वयमपि विगतव्यापदाचन्द्रतारं राजन्वानस्तु शक्तिप्रशमितरिपुणा शत्रुमल्लेन लोकः ॥ २३' (निष्क्रान्तौ ।) मत्तविलासप्रहसनं समाप्तम् । शुभं भूयात् । (क) किमेतदप्यभ्यर्थनीयम् । किं ते प्रियं करोमि । (ख) गच्छामि तावदहम् । (ग) तथा भवतु ।