एतत् पृष्ठम् परिष्कृतम् अस्ति
| २४ | मत्तविलासप्रहसनम् |
पूरेदुं पारेदि । अह्माअं पुण अहिचम्मभूदिमत्तविभवस्स दरिद्दकवाळिअस्स परिआरिआणऺ को एत्थ विभवो अधिकरणं
पविसिदुऺ ।
पाशुपतः— नैतदेवम् ।
अजिह्ये: सारगुरुभिः स्थिरैः श्लक्ष्णैः सुजन्मभिः ।
तैर्धर्मो धार्यते स्तम्भैः प्रासाद इव साधुभिः ॥ १८ ॥
कपाली- कृतमनेन । कुतश्चिदपि न्याय्यवृत्तेर्भयं[१] नास्ति ।
शाक्यभिक्षुः- [२]भो भअवं! तुमं दाव अग्गदो हो (दु?हि) |
पाशुपतः- बाढम्[३] ।
(सर्वे परिक्रामन्ति ।)
(ततः प्रविशत्युन्मत्तकः
उन्मत्तकः-[४]एशे एशे दुट्ठकुक्कुळे । शुळ्ळमंशगब्भं कवाळं गण्हिअ धावशि । दाशीएपुत्त ! कहिँ गमिश्शिशि । एशे दाणिं कवाळं णिक्खिविअ मं खायिदुकामो अहिमुहं आहावइ । (दिशो विलोक्य ।) इमिणा पत्थळेण दन्ताणि शे भंजिश्शं । कहं कवाळं उज्झिअ पळाअशि । उम्मत्ते दुट्ठठु-
वस्य दरिद्रकापालिकस्य परिचारिकाणां कोऽत्र विभवोऽधिकरणं प्रवेष्टुम् ।