सामग्री पर जाएँ

पृष्ठम्:Matta Vilasa Prahasanam Mahendra Vikrama Ed. Ganapati Sastri T.S. University of Travancore 50.pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४ मत्तविलासप्रहसनम्

पूरेदुं पारेदि । अह्माअं पुण अहिचम्मभूदिमत्तविभवस्स दरिद्दकवाळिअस्स परिआरिआणऺ को एत्थ विभवो अधिकरणं पविसिदुऺ ।
 पाशुपतः— नैतदेवम् ।

अजिह्ये: सारगुरुभिः स्थिरैः श्लक्ष्णैः सुजन्मभिः ।
तैर्धर्मो धार्यते स्तम्भैः प्रासाद इव साधुभिः ॥ १८ ॥

 कपाली- कृतमनेन । कुतश्चिदपि न्याय्यवृत्तेर्भयं[] नास्ति ।
 शाक्यभिक्षुः- []भो भअवं! तुमं दाव अग्गदो हो (दु?हि) |
 पाशुपतः- बाढम्[]

(सर्वे परिक्रामन्ति ।)
(ततः प्रविशत्युन्मत्तकः


 उन्मत्तकः-[]एशे एशे दुट्ठकुक्कुळे । शुळ्ळमंशगब्भं कवाळं गण्हिअ धावशि । दाशीएपुत्त ! कहिँ गमिश्शिशि । एशे दाणिं कवाळं णिक्खिविअ मं खायिदुकामो अहिमुहं आहावइ । (दिशो विलोक्य ।) इमिणा पत्थळेण दन्ताणि शे भंजिश्शं । कहं कवाळं उज्झिअ पळाअशि । उम्मत्ते दुट्ठठु-


वस्य दरिद्रकापालिकस्य परिचारिकाणां कोऽत्र विभवोऽधिकरणं प्रवेष्टुम् ।

  1. 'य'
  2. भो भगवन् ! त्वं तावदग्रतो भव ।
  3. 'दम् | प्रथमः कल्पः । ख पाठ: .
  4. एष एष दुष्टकुकुरः । शूल्यमांसगर्भे कपालं गृहीत्वा धावसि । दास्यापुत्र ! कुत्र गमिष्यसि । एष इदानीं कपालं निक्षिप्य मां खादितुकामोऽभिमुखमाधावति । अनेन प्रस्तरेण दन्तानस्य भक्ष्यामि । कथं कपालमुज्झित्वा पला-