एतत् पृष्ठम् परिष्कृतम् अस्ति
| मत्तविलासप्रहसनम् | २३ |
पाशुपतः- आगमानुगतमभिहितम् ।
शाक्यभिक्षुः- [१]भो ! वण्णो दाव मए किदो । इमस्स सष्ठाणपरिमाणं केण णिमिदं ।
कपाली- ननु मायासन्तानसम्भवाः खलु भवन्तः।
शाक्यभिक्षुः-[२]केत्तिअं वेळं भवन्तं अक्कोसामि | गण्हदु भअवं ।
कपाली- नूनमेवं बुद्धेनापि दानपारमिता पूरिता ।
शाक्यभिक्षुः- [३]एवं गदे किं दाणिऺ मे सरणं ।
कपाली- ननु बुद्धधर्मसङ्घाः ।
पाशुपतः-नायं व्यवहारो मया परिच्छेत्तुं शक्यते । तदधिकरणमेव यास्यामः ।
देवसोमा-[४]भअवं ! जइ एवं, णमो कवाळस्स ।
पाशुपतः- कोऽभिप्रायः ।
देवसोमा-[५]एसो उण अणेअविहारभोअसमधिगद वित्तसञ्चओ जहाकामं अधिकरणकारुणिआणं मुहाणि