सामग्री पर जाएँ

पृष्ठम्:Matta Vilasa Prahasanam Mahendra Vikrama Ed. Ganapati Sastri T.S. University of Travancore 50.pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
मत्तविलासप्रहसनम् २३

 पाशुपतः- आगमानुगतमभिहितम् ।
 शाक्यभिक्षुः- [१]भो ! वण्णो दाव मए किदो । इमस्स सष्ठाणपरिमाणं केण णिमिदं ।
 कपाली- ननु मायासन्तानसम्भवाः खलु भवन्तः।
 शाक्यभिक्षुः-[२]केत्तिअं वेळं भवन्तं अक्कोसामि | गण्हदु भअवं ।
 कपाली- नूनमेवं बुद्धेनापि दानपारमिता पूरिता ।
 शाक्यभिक्षुः- [३]एवं गदे किं दाणिऺ मे सरणं ।
 कपाली- ननु बुद्धधर्मसङ्घाः ।
 पाशुपतः-नायं व्यवहारो मया परिच्छेत्तुं शक्यते । तदधिकरणमेव यास्यामः ।
 देवसोमा-[४]भअवं ! जइ एवं, णमो कवाळस्स ।
 पाशुपतः- कोऽभिप्रायः ।
 देवसोमा-[५]एसो उण अणेअविहारभोअसमधिगद वित्तसञ्चओ जहाकामं अधिकरणकारुणिआणं मुहाणि


  1. ↑ भोः ! वर्णस्तावन्मया कृतः । अस्य संस्थानपरिमाणं केन निर्मितम् ।
  2. ↑ कियतीं वेलां भवन्तमाक्रोशामि । गृह्णातु भगवान् ।
  3. ↑ एवं गते किमिदानीं मे शरणम् |
  4. ↑ भगवन् ! यद्येवं, नमः कपालाय ।
  5. ↑ एष पुनरनेकविहारभोगसमधिगतवित्तसञ्चयो यथाकाममधिकरणकारुणिकानां मुखानि पूरयितुं पारयति । अस्माकं पुनरहिचर्मभूतिमात्रविभ-