पृष्ठम्:Maharaja College Sanskrit Journal Volume6 Part2.djvu/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीगुरुप्रार्थना.
आबाल्यात् किल संप्रदायविधुरे वैदेशिकेऽध्वन्यहं
सम्भ्रम्याद्य विमूढधीः पुनरपि स्वाचारमार्गे रतः ।
कृत्याकृत्यविवेकशून्यहृदयस्त्वत्पादमूलं श्रये
श्रीमन् लोकगुरो मदीयमनसः सौख्योपदेशं कुरु ||
आत्मानं यदि चेन्न वेत्सि सुकृतप्राप्ते नरत्वे सति
नूनं ते महती विनष्टिारति हि ब्रूते श्रुतिः सत्यगीः ।
आत्मावेदनमार्गबोधविधुरः कं वा शरण्यं भजे
श्रीमन् लोकगुरो मदीयमनसः सौख्योपदेशं कुरु ॥
कामक्रोधमदादिमूढहृदयाः प्रज्ञाविहांना अपि
त्वत्पादाम्बुजसेवनेन मनुजा: संसारपाथोनिधिम् ।
तीर्त्वा यान्ति सुखेन सौख्यपदवीं ज्ञानैकसाध्यां यतः
श्रीमन् लोकगुरो मदीयमनसः सौख्योपदेशं कुरु ||
रथ्यापकगकीटवछ्रमवशाहुःखं सुखं जानतः
कान्तापत्यमुखेक्षणेन कृतिनं चात्मानमाध्यायतः ।
वैराग्यं किमुदेति शान्तमनसोऽप्याप्तुं सुदूरं ततः
श्रीमन् लोकगुरो मदीयमनसः सौख्योपदेशं कुरु || ?
भार्यायाः पतिरात्मजस्य जनको भ्रातुः समानोदरः
पित्रोरस्मि तनूद्भवः प्रियसुहृद्वन्धुः प्रभुर्वान्यथा ।
इत्येवं प्रविभाव्य मोहजलधौ मज्जामि देहात्मधीः
श्रीमन् लोकगुरो मदीयमनसः सौख्योपदेशं कुरु ||
3