पृष्ठम्:Maharaja College Sanskrit Journal Volume6 Part2.djvu/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमन्महाराजसंस्कृतमहापाठशालापत्रिका
सत्कर्माणि किमाचरेयमथवा किं देवताराधना-
मात्मानात्मविवेचनं किमु करोम्यात्मैकसंस्थां किमु ।
इत्यालोचनसक्त एव जडधी: कालं नयामि प्रभो
श्रीमन् लोकगुरो मदीयमनसः सौख्योपदेशं कुरु ||
किं वा स्वाश्रितपोषणाय विविधक्लेशान् सहेयानिशं
किं वा तैरंभिकाङ्क्षितं प्रतिदिनं संपादयेयं धनम् |
किं ग्रन्थान् परिशीलयेयमिति मे कालो वृथा याप्यते
श्रीमन् लोकगुरो मदीयमनसः सौख्योपदेशं कुरु ||
संसाराम्बुधिवीचिभिर्बहुविधं संचाल्यमानस्य मे
मायाकल्पितमेव सर्वमिति धीः श्रुत्योपदिष्टा मुहुः ।
संधुक्तया च दृढीकृतापि बहुशो नोदेति यस्मात्प्रभो
श्रीमन् लोकगुरो मदीयमनसः सौख्योपदेशं कुरु ||
यज्ज्ञानात् सुनिवर्तते भवसुखभ्रान्तिः सुरूढा क्षणात्
यद्धयानात् किल दुःखजालमखिलं दूरीभवेदञ्जसा ।
यल्लाभादपरं सुखं किमपि नो लब्धव्यमास्ते ततः
श्रीमन् लोकगुरो मदीयमनसः सौख्योपदेशं कुरु ||
सत्यभ्रान्तिमनित्यदृश्यजगति प्रातीतिकेऽनात्मनि


त्यक्ता सत्यचिदात्मके निजसुखे नन्दामि नित्यं यथा ।
भूयः संसृतितापतत्पहृदयो न स्यां यथा च प्रभो
श्रीमन् लोकगुरो मदीयमनसः सौख्योपदेशं कुरु ||
१०
आर्. कृष्णस्वामी.