पृष्ठम्:Maharaja College Sanskrit Journal Volume6 Part2.djvu/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४
श्रीमन्महारराजसंस्कृतमहापाठशालापत्रिका
अत्र पूर्ववदानीतो नखतत्व (२५२०) संख्यो भाज्यराशिरे के-
नाग्रेण युक्तः (२५२१) प्रत्यासन्नो भाज्यराशिः । ऐवमनेन न्यायेन
सूर्येन्दुभौमजीवशनैश्चराणां बुधभृगुशीघ्रोच्चयोश्चन्द्रोच्चपातयोश्च द्वियुगा-
द्यानयनम् । उदाहरणन्तु ग्रन्थविस्तरभयान्नप्रदर्श्यते । अत्र च “पूर्वेण
पूर्वेण गतेनयुक्तंस्थानंविनान्त्यंप्रवदन्तिसंख्याम् । इच्छाविकल्पैःक्रम-
शोभिनायनीनेनिवृत्तिःपुनरन्यनीति: " ( बृहत्संहितायाम् अध्याये ७६.
श्लो. २२ वराहमिहिरः) इत्याचार्योक्तप्रकारेणैषा मेकयुगविषयाः प्रश्ना
नव (९) द्वियुगविषयाः षट्त्रिंशत् (३६) त्रियुगविषयाश्चतुरशीतिः
(८४) चतुर्युगविषया रसनेत्रचन्द्र (१२६) संख्याः । पञ्चयुगविषयाश्च
तावन्तः (१२६) षड्युगविषयाश्चतुरशीतिः (८४) सप्तयुगविषयाः
षट्त्रिंशत् (३६) अष्टयुगविषया नव (९) नवयुगविषयः प्रश्न एकः
( १ ) एवं संभूय रुद्रबाण (५११) संख्या प्रश्नास्संभवन्ति । अत्र रवि-
चन्द्रभौमजीवशनैश्चराणां बुधकाव्यशीघ्रोच्चयोश्चन्द्रोच्चयातयोश्च युगै-
श्शून्याग्रो राशिः वसुद्वयष्टाद्रिरूपाङ्कसप्ताद्वितिथि (१५७७९१७८२८)
संख्यः । आर्यभटीये तु व्योमशून्यशराद्रीन्दुरन्धाद्रयद्रिशरेन्दु (१५७
७९१७५००) संख्यः । एवं साग्रकुट्टाकारो दर्शितः ॥
तु
इत्यत्रिकुलाभरणस्य स्कन्धत्रयवेदिनः सिद्धान्तवल भइतिप्रसिद्धा-
परनाम्नः श्रीवरदराजाचार्यस्य तनयेन देवराजेन
विरचितायां कुट्टाकार शिरोमणिटीकायां
महालक्ष्मीमुक्तावल्यां साग्रपरि-
च्छेदः प्रथमः.