सामग्री पर जाएँ

पृष्ठम्:Maharaja Collage Sanskrit Journal Issue1 Volume1.djvu/६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमन्महाराज संस्कृतमहापाठशालापत्रिका बहवो विद्यार्थिनः सपारितोषिकं सविद्वद्विरुदं च सम्मान्यन्ते । ततश्च यथासम्भवं मासिकवेतनानि प्रतिफलमनाकाङ्क्ष्य समर्प्यपि सम्मान्यन्ते ॥ । महीशूरपत्तन इव बेंगळूरूपत्तने मेलकोटग्रामे च महत्यौ द्वे पाठशाले स्थापिते स्तः । तत्र तत्र देशेऽस्मिन् बढ्य उपपाठशालाः स्थापिता वर्तन्ते. एतासु संस्कृतपाठशालावधीतशास्त्रार्थाः पण्डिता आर्याणां विज्ञानवैभवस्य दर्पणस्थानीया विद्यन्ते । अयमेव विज्ञानवैभव- विशेषः आर्याणां नागरकताप्रकर्षं बाढं प्रदर्शयति । विज्ञानवैभवविशे- पश्च तत्तद्दर्शनानां परिचयं विना नावगम्यते, यथा ग्रीक्जनानां तदीयसिद्धान्तार्थावबोधनात् ज्ञायते तथैवार्याणामपि नागरकताप्रकर्ष- स्तदीयसिद्धान्तार्थावबोधनान्निश्चीयते । तादृशशास्त्रार्थावबोधनं च संस्कृतपण्डितायत्तमिति संस्कृतविद्वांसो भरतखण्डनागरकतायाः सजीव- विजयस्तम्भा इति वक्तुं शक्यते ॥ न हि संस्कृतपण्डितानामुपकारः शास्त्रार्थबोधनमात्रे विश्राम्यति । ते हि चातुर्वर्ण्यान्तर्गतानां सर्वेषां भरतखण्डीयानां जनानां धर्मा-, नुष्ठानसंदेहपदेषु प्रमाणभूतास्सन्ति । यद्यपि वेज्जना अधीताङ्ग यविद्या आर्यधर्माचरणेषु सन्दिहाना वर्तन्ते, तथाऽपि अनर्धाता- ङ्ग्लेयविद्यास्सर्वे अधीताङ्ग्लेयविद्येष्वपि बहवो जनाश्च अनुविधे- याचारान् पण्डितानेवानुवर्तन्ते । तदित्थं पण्डितानां मूर्धनि महान् सदाचारमार्गप्रवर्तनभारो न्यस्तो वर्तते । एवं सति कस्सदाचारः कश्चासदाचारः किं वर्णाश्रमव्य- वस्था श्रेयस्करी ? किं पेयापेयविवेकस्समाश्रयणीयः ? किं भोज्याभो- ज्यनियमो नोल्लङ्घनीयः ? स्पृश्यास्पृश्यनियमः कुतो वा परीक्षणीयः ? किं देशभेदाद्धर्मो न भिद्यते? किं वा एक एव धर्मस्सार्वजनीनोऽव- गम्यते । एतादृशेषु बहुषु सन्देहविषयेषु युक्तयेकपक्षपातिनः पाश्चात्या विद्वांसो वैदिकनिश्चयविरुद्धमेव निर्णयं कुर्वन्ति ॥ प्रस्तावना manife न केवलमैहिकाचारव्यवहारविषयेष्वेव प्राच्यपाश्चात्त्ययोरभिप्राये विरोधस्संदृश्यते । अपितु सर्वेषां भरतखण्डीयजनाभिप्रायाणां मूला- धारभूतो यस्सिद्धान्तस्तमेव ते नाङ्गकुिर्वन्ति । सर्वेऽप्यैहिकाचारव्यव- हारनियमा ईश्वरप्रवर्तितशास्त्रसिद्धा इति भरतखण्डीयानां सिद्धान्तः । सर्वोऽप्यामुष्मिकश्चैहिकश्च व्यवहारो मानुष एव न तु दैवः । प्रथमतो भाषैव मानुषी, न दैवी । यथा परिधानीये विषये मनुष्यः क्रमात् स्थूलपटवानात्कौशेयपीताम्बरादिसूक्ष्मपटवानमभ्यस्तवान्, तथैव भाषाविषयेऽप्यादावल्पामपि क्रमेण सकलार्थवर्णनसमर्थां भाषां उद्भाव- यत् । अद्यापि वनेचराणां नीलगिरिस्थानां तोदनामकजनानां भाषा सूक्ष्मार्थवर्णने बहुलं कुण्ठिता वर्तते । एवमेव गृहनिर्माणे देवायतन- निर्माणे रंथादिविरचने शस्त्रास्त्रकल्पनायां गृहभाण्डादिकरणे च क्रमाच्छिल्पचातुर्यं समजनि । अद्यापि शिल्पचातुर्य क्रमादेधमानं दृश्यते । यथा शिल्पे तथा विज्ञानप्रसरणेऽपि क्रमाद्वद्धिरभ्युपगन्तव्या । गणितशास्त्रे ज्यौतिषे कवितायां वैद्यशास्त्रे तर्कशास्त्रे आध्यात्मिक- शास्त्रे च प्रथमतोऽल्पतरमेव क्रमागृहत्तरं जातमद्य बृहत्तमं जायमानं दृश्यते । वेदाङ्गज्यौतिषे वराहमिहिरादिभिर्वर्णितानि ग्रहगतिगणितानि न वर्णितानि । तत्काले तदज्ञानमेव तत्र हेतुरिति पाश्चात्त्या वदन्ति || किं बहुना । सर्वो हि मानुषो व्यवहारो नदीप्रवाह इव स्वल्पः ततो महान् ततश्च महत्तरो जातः क्रमेण महत्तमोऽपि सम्पत्स्यत इत्यत्र न कोऽपि सन्देहः । वृद्धेरन्तो नास्तीति ते मन्यन्ते । तेषामनुष्ठानं च स्वाभिप्रायानुसार्येव वर्तते ॥ एकस्य देशस्य देशान्तरसङ्गमेन कदाचित् ज्ञानवृद्धिः कदाचि- द्विद्याविनाशः, कदाचिद्विद्यावैपरीत्यं च जायते । एवमेवाचारेषु देशभेदात् देशान्तरसंयोगात् देशान्तरीयविद्याभ्यासनिमित्तान्मातभेदाच्च Digitised by Ajit Gargeshwari For Karnataka Samskrita University