पृष्ठम्:Maharaja Collage Sanskrit Journal Issue1 Volume1.djvu/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमन्महाराज संस्कृतमहापाठशालापत्रिका देवान् भावयतानेन ते देवा भावयन्तु वः । परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥ जहि शत्रु महाबाहो कामरूपं दुरासदम् । महाशनो महापाप्मा विद्धचेनमि॒ह वैरिणम् ॥ तस्मात् सर्वैरपि सचेतनैः २२ यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् । यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥ इत्युक्तरीत्या स्वयंप्रयोजनेन स्वार्थपरित्यागलक्षणेन परोपकारपर्यवसायिना यज्ञेन परमेश्वरं समाराध्य निश्श्रेयसं संपादनीयामिति सर्वशास्त्रसामरस्यम् ॥ एतेन वेदः कामस्य दुष्पूरस्यैव वर्धकः । न शान्तिसुखदश्चेति बाह्यवादोऽधरीकृतः ॥ शबरस्वामिप्रभृतयस्तु परोपकारो न धर्म: तद्विलक्षण एव यागादिधर्म इति सिद्धान्तयन्ति' । निमित्तवादे तु परोपकार एव यज्ञस्स एव धर्म इति सिद्धान्तः ॥ लोकार्थेन प्रवक्ष्यामि यदुक्तं ग्रन्थकोटिभिः । परोपकारः पुण्याय पापाय परपीडनम् ॥ 2 एतावजन्मसाफल्यं प्राणिनामिह जीवताम् । प्राणैरथर्धिया वाचा श्रेयआचरणं सदा ॥ लल्क्षीपुरं श्रीनिवासविपश्चिच्चक्रवर्तिना । इत्थं निमित्तवादस्य रहस्यं विशदीकृतम् ॥ श. भा. 1-3-1. पत्रिका संपादकः 2 श्रीभागवतम् संस्कृत विद्वत्परीक्षा वृत्तान्तपत्रिका संस्कृत विद्वत्परीक्षावृत्तान्तपत्रिका. श्रीमन्महीशूरमहाराजश्रीकृष्णराजसार्वभौमसमष्ठिधातायां रक्ताक्षि- संवत्सरीयनवरात्रमाहोत्सवानुबन्धिन्यां आश्वयुच्छुक्लत्रयो - दश्यां भार्गववासरे श्रीमन्महाराजसन्निधौ विनिवेदिता संस्कृतविद्वत्परीक्षावृत्तान्तपत्रिका. (१) महाप्रभो, भवदीयदिव्यशासनानुरोधेन संस्कृतविद्याभि- वर्धकमहासमितिमुखेन महीशूरनगर्यां संस्कृमहापाठशालायां निर्वर्ति- तायाः विद्वत्परीक्षाया वृत्तान्तं महासन्निधौ विनिवेदयितुमवसरम्सम- भ्यर्थ्यते. (२) अस्मिन् वत्सरे नवीनशासनानुसारेण मध्यमोत्तमकक्ष्या- परीक्षा, प्राचीनशासनानुसारेण प्रथमद्वितीयभागपरीक्षा च निरवर्तिषाताम्. तत्र परीक्षायै प्रवेशं प्रार्थितवन्तः परीक्ष्याः एकनवतिसंख्याका विद्या- थिनः, तेप्वष्टषष्टिसंख्याकाः परं पर्येक्ष्यन्त चतुश्चत्वारिंशत्संख्याकाः उदतारिषुः. (३) तेषु विंशतिः विद्यार्थिनः श्रीमन्महाराजसंस्कृतमहा- पाठशालीयाः. सत्रयो विद्यार्थिनः बेंगळूरु श्रीमच्चामराजेन्द्रसंस्कृत महापाठ- शालीयाः. २० ३ यादवाद्रि (मेलुकोटे) संस्कृतमहापाठशालीयः एकः विद्यार्थी. १ बेंगळूरु श्रीशंकरमठीयमहापाठशालीयाः चत्वरो विद्यार्थिनः एतद्देशीया देशान्तरीयाश्चान्यत्र स्वतन्त्रैः विद्वद्भिश्शिक्षिताः षोडश विद्यार्थिनः, इति विवेकः. ४ Digitised by Ajit Gargeshwari For Karnataka Samskrita University १६ ४४