पृष्ठम्:Maharaja Collage Sanskrit Journal Issue1 Volume1.djvu/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमन्महाराज संस्कृत महापाठशाला पत्रिका तथा विश्वजिता चैव यजेतेत्यापे शास्ति हि । रात्रीरुपेयादिति च वाक्यं स्यात्प्रमुसम्मितम् ॥ सर्वत्र फलक्कृप्तिस्तु श्रम एव हि केवलम् । शासनाच्छास्त्रमिति च प्रथितं निरुपाधिकम् ॥ यजेत यद्विश्वजितेत्यादि क्षत्रस्य शासनम् । तत् क्षत्रस्य क्षत्रमिति स्याद्धर्मो राजशेखरः ॥ तस्माद्यत्र फलाश्रवणं तत्र फलकल्पनेऽपि निमित्तवाद एव पर्यवस्यति । अ अकल्पने पुनश्शास्त्रस्यैव साम्राज्यं निस्सपत्नम् || इममर्थमेवानुसन्धाय भगवान् वासुदेवस्स्वयमाह- कर्मण्येवाधिकारस्ते, कार्य कर्म समाचर । योगस्थः कुरु कर्माणि, कार्य कर्म करोति यः ॥ • नियतं कुरु कर्मत्वं, कर्म कर्तुमिहाईसि । कार्यमित्येव यत्कर्म, न त्याज्यं कार्यमेव तत् ॥ इत्यादीनि । एतेन नियोगसाम्राज्यं परां कोटिमाटीकते ॥ ननु स च नियोगो नित्येष्वेव कर्मस्विति चेन्न, शास्त्रस्य अर्ध- जरतीयतापत्त्या नित्यकाम्यविभागस्यापि निमित्तवादेऽनभ्युपगमात् । फल- संयोगवादे हि तद्विभागतद्विचारैतदङ्गसंपत्त्याद्यनुयोगावसरः । नैमित्तिक- स्यापि नित्यप्रभेदतोपपत्तिः । नित्यस्यापि शुचिजीवनादिनिमित्तत्वम् । एवं च विभागो न सहृदयहृदयंगम इति निमित्तवादाशयः ॥ 'उपबृंहणम्. अत एव स्मृतिकर्तारोऽपि महर्षय निमित्तवादं हृदि निधायैव- मस्मार्षुः-

-

यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यतृप्तये ।' अधिकं वाऽपि विद्येत स सोमं पातुमर्हति ॥ 1 बृ3-4-14 वेदार्थविचारे निमित्तवाद: 2 त्रैवार्षिकाधिकान्नो यः स हि सोमं पिबेद्विजः ! प्राक्सौमिकीः क्रियाः कुर्यात् यस्यान्नं वार्षिकं भवेत् ॥ योऽनाहिताग्निश्शतगुः अयज्वा च सहस्रगुः । तयोरपि कुटुम्बाभ्यामाहरेदविचारयन् ॥ यो वैश्यस्स्याद्वहुपशुः हीनऋतुरसोमपः । कुटुम्बात्तस्य तद्रव्यं आहरेद्यज्ञासद्धये ॥ आहरेत्रोणि वा द्वे वा कामं शूद्रस्य वेश्मनः । न हि शूद्रस्य यज्ञेषु कश्चिदस्ति परिग्रहः || कुसुलकुम्भीधान्यो वा व्याहिकोऽश्वस्तनोऽपि वा। || जोवेद्वाऽपि शिलोऽछेन श्रेयानेषां परः परः || इत्यादिवचनानां हार्दो भावः कामप्रध्वंस एवेति निमित्तवाद एव उपबृं- हितो भवति ॥ स्तेयशास्त्रेऽपि –" असाधुभ्योऽर्थमादाय साधुभ्यः प्रयच्छति " इत्युक्तमित्युदाहृतम् । तस्यापि तात्पर्यं साधुषु स्थितं द्रव्यं लोकोप- कारलक्षणधर्मायोपयुज्यते । असाधुषु स्थितं विपरीतायेति ॥ २१ अत एव च यागादौ नरा येऽनधिकारिणः । तत्तादृग्दक्षिणादानात् तेषां सिद्धिरुदीरिता ॥ । दक्षिणा सर्वयशानां दातव्या भूतिमिच्छता | इति शान्तौ राजधमै दस्यूनामपि चोदितम् ॥ निगमनम् निमित्तवादे कामप्रध्वंससिद्धान्ते यज्ञो नाम आत्मीयेन द्रव्येण स्वार्थपरित्यागेन प्रपञ्चोपकार इति सिद्धोऽर्थः । अमुमेवार्थमुपदिदेश भगवान् इति संभावयामः - सह यज्ञैः प्रजासृष्ट्वा पुरोवाच प्रजापतिः । अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ॥ 155 अ. Digitised by Ajit Gargeshwari For Karnataka Samskrita University