पृष्ठम्:Laghu paniniyam vol2.djvu/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दार्ढ्यशैथिल्ये ।
गमे प्रत्ययो दृढ इति सेट्त्वे परं एत्वाभ्यासलोपौ विहितौ । गमहनादी-
नामल्लोपः, अनुदात्तोपदेशवनति तनोत्यादीनामनुनासिकलोपादयश्च झलि
क्ङिति विधानात् प्रकृतिं शिथिलीकुर्वन्ति । संयोगान्तो धातुः पूर्वस्याचो
गुरुत्वेन दृढैव वर्तेतेति असंयोगादेव लिट् कित्कृतः । अकारान्तेषु विक-
रणेषु विकरणान्तानामङ्गानां तिङां च दृढशिथिलविभागस्य नास्त्यवकाशः ।
बिकरणस्य पित्त्वङित्त्वादिभिस्तस्य तदङ्गस्य च दार्ढ्यशैथिल्ये तु संभवत
एव । यथा शपि गुण, शे त्रश्चादीनां सम्प्रमारणं च कृत्सु तिङ्तुल्या
दार्ढ्यशैथिल्यव्यवस्था, तद्धितेषु सुप्तुल्या चेत्यतिदेश एवं पर्याप्नोति ।
अक्षरद्वित्वे द्विरुक्तस्य 'पूर्वोऽभ्यास इत्युक्तम्; व्यवहार सौकर्याय उ
त्तरोऽभ्यासीति व्यपदिश्यते । अभ्यस्तेऽङ्गे अभ्यासस्याभ्यासिनि न्य*ग्भावो
न्याय्यः । अतस्तत्र हलादिः शेषो हखो, जश्त्वचत्वाभ्यां महाप्राणचीज-
त्यागः सम्प्रसारणं च क्रियते । तैः सह चोः कुत्वस्य विपर्यामेन कुहोश्चु-
विधानात्, अत इत्त्वविधानाच्च कण्ठ्यापेक्षया तालव्यस्य शैथिल्य प्रयोज-
कत्वमनुमयते । श्नाभ्यस्तयोरात ईत्वमपि शिथिलाया एव प्रकृतेर्विहि-
तम् । पिपर्ति पिपूर्तः पिपुरति, करोति कुरुतः कुर्वन्ति इति शिथिलायां
प्रकृतौ क्वचिदकारस्य उत्वमपि कृतं दृश्यते । इयमेवोपपत्तिः ‘अकार
स्तीब्रयलः, इकारो मृदुयत्नः, उकारो मध्ययत्नः, इति मूलस्वराणां यत्नतार-
तम्यकथनस्य |
एवमन्यत्रापि दार्ढ्यशैथिल्यनयः संचार्यः । यथा झस्यातान्तादेशयो
र्व्यवस्थायाम् । तत्र हि अभ्यस्तस्य धातोर्द्वत्वेन दृढायां प्रकृतौ प्रत्ययः शैथि-
ल्यमर्हतीति 'अदभ्यस्तात्' इत्युक्तम् । 'आत्मनेपदेष्वनतः' इत्यात्मनेप-
देष्वनभ्यस्तादपि धातोरतादेशविधानमपि झेरपेक्षया झे झ इत्यनयोस्तीव्रयत्न-
त्वेनदार्ढ्य तारतम्यनिबन्धनमिति सुलभा युक्तिः । आच्छी नद्योनुम्विधिः, अभ्य

  • यङयड्लुकोः पुनर्विपरीता दशा । तत्र हि क्रिया समभिहारद्योतनाय धातुर्द्वि-

सच्यते । अतोऽभ्यासाभ्यासिनोः समं प्राधान्यम् । ततश्च परिण हेनाभ्यासिसाम्यं
म्सपादयितुमभ्यासो गुणेन, दीर्घेण, रुग्रिग्रीगागमैश्च पौष्कल्यं नीयते । 2012
हरयाताया

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/९५&oldid=347337" इत्यस्माद् प्रतिप्राप्तम्