पृष्ठम्:Laghu paniniyam vol2.djvu/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विभक्तयः ।
८५
स्ताच्छतुः प्रतिषेधः, औङ: श्यां विकल्पनञ्चानया रीत्या व्याख्येयम् । किं
बहुना, उच्चावचविकारवैया कुलीमहान्धकारसम्मीलितायां रूपनिष्पत्तिप्रक्रि-
यापद्धतौ प्रचरतां बालानां दार्ढ्यशैथिल्यनयोऽयं, वेलागतो दीपस्तम्भ इव
महार्णवमवतीर्णानां सांयात्रिकाणां, दिक्प्रदर्शनेनावश्यमुपकरिष्यति ।
स्वरनिर्णयेऽपि दार्ढ्यशैथिल्यव्यवस्थेयं सामान्यत उपयुज्यते ।
स्वरेषु ह्युदात्त उत्कृष्टः; अनुदात्तो निकृष्टः । अतः प्रकृतेः प्रत्ययस्य वा
दृढस्य उदात्तो न्याय्यः, शिथिलस्यानुदात्तश्च । तथैव च प्रायशो दृश्यते-
सर्वनामस्थाने प्रकृतिस्वरः; भपदयोः प्रत्ययस्वरश्च नामसु; निवृत्तिस्थाने
प्रकृतिस्वरः, प्रवृत्तिस्थाने प्रत्ययस्वरश्चाख्यातेष्विति । ‘अनुदात्तौ सुप्पितौ’
‘सावेकाचस्तृतीयादिर्विभक्तिः ‘शतुरनुमो नद्यजादी' ‘तास्यनुदात्तेङिददुप-
देशालसार्वधातुकमनुदात्तमहिङो' इत्यादीनि सूत्राण्यत्रानुसन्धेयानि ।
w sp
३. विभक्तयः ।
DIE
ग्रीकायां
कूटस्थायामैन्द्ययौरोपभाषायां सप्त (सम्बोधनया सहाष्ट वा) विभ-
क्तय आसन्; ताः सर्वा अपि संस्कृते छन्दायां च दृश्यन्ते ।
पञ्चैव शिष्यन्ते; लेतिनायां षट्; आङ्गलसेक्सोण्यां गोथिकायां च पञ्च;
आङ्गल्यां न कापि । अन्त्यायां सर्वनाम परं काश्चन लुप्तशेषा दृश्यन्ते ।
छन्दाग्रीका संस्कृतवर्जमन्यामु एकवचनबहुवचने एव । तास्वपि विरला
द्विवचनप्रत्ययाः । यथा संस्कृते सप्तानां विभक्तीनां औ भ्यां ओस् इति
त्र्य एव प्रत्ययाः । विभक्तिगणनानुक्रमो द्विवचनप्रत्ययानुरोधेन कृतः
प्रतिमाति- प्रथमयोमध्यमत्रयस्य, शेषद्वयम्य चैकरूपः प्रत्ययो यथा
स्यादिति । तत्रार्थविशेषप्रतिपादकत्वाभावेन सामान्यविभाक्तत्वात् प्रथ-
मायाः प्राथम्यमित्येव । विभक्तिवाच्यानां कारकाणां
प्रकर्षाभ्यां विभागस्त्वन्यथैव स्यात् ।
सम्बन्धसन्निकपोव-
सम्बन्धसन्निक पो

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/९६&oldid=347338" इत्यस्माद् प्रतिप्राप्तम्