दार्ढ्यशैथिल्ये ।
सङ्कचन्ति । प्रत्ययः पुनः 'हस्वनद्यापो नुट्' 'याडापः' 'आपनद्या' इत्या-
द्यागमरासादितपरिवारो विजम्भृते । तथा पदसंज्ञायामपि प्रकृतिर्नलोपसं-
योगान्तलोपाभ्यां, वसोईत्वेन, जश्त्वचवरूपेण महाप्राणाना मल्पप्राणीक-
रणेन च श्लक्ष्णीभवति । प्रत्ययो विकाराभावानुदासीनोऽपि हलादित्वात्
स्वत एव गाढशरीरबन्धो जागर्ति । अत्र विकासः, प्राकट्यं, विजृम्भणं
इति पर्दैः प्रतिपादितो धर्म एव दार्म्यम्; ह्रासः सङ्कोचो, न्यग्भाव इति
पदैः प्रतिपादितो धर्मः शैथिल्यम् । प्रकृतिप्रत्यययोः प्रधानं प्रकृतिरिति लौ
किकव्यवहारादुभयसमुदायात्मनां रूपाणां दार्ढ्यशैथिल्यभेदः प्रकृत्यनुरोधे-
नोच्यते । अतः सर्वनामस्थानी ने रूपाणि दृढानि; पदानि शिथिलानि;
भानि शिथिलतराणि। दीर्घे गुणवृद्धी, नुमागम इत्यादयो दार्ढ्यपादका
धर्माः; ह्रस्वः, सम्प्रसारणं, अल्लोपादयो लोपाः इत्यादयः शैथिल्यापादकाः ।
DIPO
आख्यातेष्वप्येवं सुकरो दृढशिथिलविभागः । तत्र विकरणभेद-
वत्सु लट्-लङ्-लोट्–लिङ्क्षु गुणवृद्धिमन्ति पिद्रूपाणि दृढानि; तद्रहि-
तानि नलोपसम्प्रसारणाद्यर्हाणि ङिद्रपाणि शिथिलानीति स्पष्टम् । अत-
स्तत्र 'लिङ्हीविनैकवचनानि ' (सू- ९०८) इति श्लोकेन कृतं
पिङ्ङिद्विभागमेवानुसरति दृढशिथिलविवेकोऽपि । शिथिलेष्वपि भुपदसंज्ञो-
कन्यायेन प्रत्ययस्य अजादित्वझलादित्वाभ्यां शौथल्यतारतम्यमूह्यम् । नाम-
विभक्तीनां भपदसर्वनामस्थानसंज्ञाभिर्विभागः कृतः । आख्यातानां तु
पकारङकाराभ्यामनुबन्धाभ्यामेव विभाग इति भेदः । पूर्वाचार्यास्तु
आख्यातेष्वपि संज्ञया विभागमन्वतिष्ठन्निति निरुक्तादवगम्यते । यथाह
यास्कः- “अथाप्यस्तेर्निवृत्तिस्थानेष्वादिलोपो भवति स्तः सन्तीति" इति ।
ङितामियं संज्ञा; पितां प्रवृत्तिस्थानमिति संज्ञा स्यादिति तर्क्यते । इह
श्वाभ्यस्तयोरीत्वलोपौ दार्ढ्यशैथिल्यानुरोधेन क्रियेते । दृढेषु ऋणातीत
तादवस्थ्यं; शिथिलेषु क्रीणीत इति आत ईत्वम्; शिथिलतरेषु क्रीणन्तीति
लोपः । एवं श्नसोरल्लोपादयोऽपि दार्ढ्यशैथिल्ये पुरस्कृत्यैव प्रवर्तन्ते ।
।
लिटि ङित्वस्थाने कित्त्वं प्रत्ययानां दायपादकं प्रकृतीनां चा
प्रकृतीनां वा
शैथिल्यापादकम् । एत्वाभ्यासलोपा शिथिलाया एवं प्रकृतः । थाले इडा-
पृष्ठम्:Laghu paniniyam vol2.djvu/९४
दिखावट
एतत् पृष्ठम् अपरिष्कृतम् अस्ति