पृष्ठम्:Laghu paniniyam vol2.djvu/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

68. H
दार्ढ्यशैथिल्ये ।
गण्येते ।
इहाक्षराणां गौरवलाघवे इव प्रकृतिप्रत्यययोर्दार्ढ्यशैथिल्ये
सर्वलघु सर्वगुरु वा वृत्तं वृत्तशास्त्रकारा न बहुमन्यन्ते; गुरुषु लघुषु च
यथायोगं व्यामिश्रितेष्वेव वृत्तं श्राव्यं भवति । तथा व्याकरणे दृढशिथि
लयोः प्रकृतिप्रत्ययोर्यथावन्मेळन एव नाम्नामाख्यातानां च रूपावलिः
प्रकाशेत; अन्यथा दुरश्रवा स्यात् । गुरुलघुनियमो मात्रानिबन्धनः ।
किन्निबन्धनो दार्ढ्यशैथिल्यभेद इति विचारयामः-
इह किल भ-पद- सर्वनामस्थान- संज्ञाभिः प्रक्रियाविधानान्नाम्नां
रूपावलिस्त्रिधा वर्तते । तत्र भपदसंज्ञे प्रकृतेः, सर्वनामस्थानसंज्ञा तु प्रत्य-
यस्येत्यस्ति तुच्छो भेदः । उभयेषां साजात्यसम्पादनाय सर्वनामस्थान-
प्रकृतिं सर्वनामस्थानिनीति, भपदयोः प्रत्ययं भप्रत्ययः पदप्रत्यय इति च
व्यवहरिष्यामः । अथ तत्तत्संज्ञाप्रयुक्तैः कार्यैरनुष्ठितैः प्रकृतेः प्रत्ययस्य वा
जायमानो विकारः कीदृश इति विमृश्यते । सर्वनामस्थानकार्याणि तावत्
(१) नान्तस्य, नससंयोगान्तस्य, तृनूतृजन्तस्य चाङ्गस्थोपधादीर्घः;
(२) उगिदचां नुम्; (३) ऋदन्तस्य गुणः; (४) ओदन्तस्य वृद्धिरि-
त्यादीनि । सर्वोऽप्ययं विकारो विकासरूपत्वात् सर्वनामस्थानिनीं प्रकृति-
मुत्तम्भयन्तीव प्रतिभासते । प्रत्ययस्य तु विपरीतो विकारः | हल्ड्या-
दिलोपेन सुर्भूयसा लुप्यते; संबुद्धि तु 'एङ् हस्वात् ........' इत्यादिभि-
लुप्यतेतराम् । अमिपूर्वेण प्रथमयोः पूर्वसवर्णेन च अमौडौ प्रकृती
लीयेते । सर्वोऽयं विकारः सङ्कोचरूपत्वात् प्रत्ययं न्यक्करोति । एवञ्च
सर्वनामस्थाने प्रकटा प्रकृतिः, प्रत्ययस्तत्र लीन इव सङ्कुचति ।
-
भपदसंज्ञयोर्दशा विपरीता । भसंज्ञायां हि अन्नन्तस्याञ्चतेश्चाल्लो-
पेन, बसोः सम्प्रसारणेन, पथिमथ्यृभुक्षां टिलोपेन, आतो धातोरन्तलोपेन,
'दिव उत्' इत्यादिभिश्च प्रकृतिर्हसति । पदाद्यादेशैः पादादयश्च बहुधा

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/९३&oldid=347335" इत्यस्माद् प्रतिप्राप्तम्