पृष्ठम्:Laghu paniniyam vol2.djvu/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अक्षरसमानायः ।
८१
उक्तविधया जाग्रत्यप्यच्चावचे मेदे सगोत्रा ऐन्द्ययौरोपभाषा वर्णवि-
क्रियासु दर्शयन्त्येव कामपि व्यवस्थाम् | येयं यद्यप्यसार्वत्रिकी तथापि
यावन्तमंशं व्याप्नोति तावति नियोगतः प्रवर्तत एव । वर्गाणां प्रथमतृतीय-
चतुर्थाः खरमृदुघोषा अस्या विषयः । तत्र तालव्यमूर्द्धन्यौ चटवर्गी
विरलासु भाषास्वेव वर्तेते इत्युक्तम् । अतः शेषेषु कण्ठ्यदन्त्योष्ठयेष्वेवाव-
काशोऽस्याः। व्यवस्थास्वरूपं तावदिदम् । १. यत्र संस्कृतभाषायां मृदुर्दृश्यते
तत्र गोथिकायां खरः, शर्मण्यायां घोषश्च; २. संस्कृते खरो गोथिकायां
घोषः स्यात् ; शर्मण्यायां मृदुश्चः ३. संस्कृते घोषो गोथिकायां मृदुः;
शर्मण्यायां खरश्च इति । आर्ययापि संग्रहः
मृदुखरघोषान् क्रमशः खरघोषमृदूश्च दर्शयति ।
अथ घोषं मृदुखरकौ गैर्वाणी गोथिका च शर्मण्या ||
अत्र संस्कृतस्योक्तो वर्णपरिवर्तननियमः छन्दा, ग्रीका, लेतिना इत्यादीना-
मनेकभाषान्तराणामपि साधारणः । तथा गोथिकाया उक्तो नियम आङ्ग-
लसेक्साणी आङ्गली इत्यादीनां साधारणः । अतः संस्कृतगोथिके स्वस्व-
वर्गस्य प्रतिनिधित्वेन ग्राह्ये । शर्मण्या त्वेकैव । तत्रापि प्रकृष्टशर्मााण्या
निकृष्टशर्मण्येति द्विविधे भेदे प्रकृष्टैवात्र विवक्षिता । एवं प्रकृतवर्णव्य-
त्यासनियमापेक्षया ऐन्द्ययौरोपभाषाणां संस्कृतवर्गः, गोथिकावर्गः प्रकृष्ट-
शर्मण्या इति त्रेधा विभागः कृतः । नियमोऽयं शर्मण्यदेशीयेन ग्रिम्मसं-
ज्ञेन भाषाविज्ञानिना दृष्ट इति तदाख्यया ग्रिम्मसिद्धान्त इति प्रथामवाप ।
अथास्य कतिचिदुदाहरणानि दर्शयामः-
1. संस्कृतम् – युगम्, भ्रातृ, सप्तन्, पितृ, मातृ, भू, त्वम्, (धु) दुहि
आङ्गली-योक्, बोधर्, सेव्हेन्, भाधर्, मोधर्, बि, धौ, दाह्तर्
प्र शर्मण्या-जोघ्, प्रूओदर्, सिएबेन्, बेदर, मुओदर्, पिम्, दु,
शर्मण्यायां दन्त्यमात्रव्यवस्थितोऽयं नियमः; स्वरमृद्रोः कचिदुच्चारण-
दोपाल्लिपिवैकल्याच्च परिवर्तनं जातम्; संस्कृते भष्भावेन घोषविनिमयः
तोतर्
संवृत्त इत्यादयो विशेषा अप्यत्र वक्तव्याः। सामान्यमेवात्रोपक्षिप्तम् ।
(1) Grimm's Law

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/९२&oldid=347334" इत्यस्माद् प्रतिप्राप्तम्