अक्षरसमानायः |
मध्यमेषु रेफलकारौ कचिदेकस्यैव वर्णस्य वेषभेदाविव दृश्येते ।
यथा - रोहितम्-लोहितम् ; शुक्रम्-शुकम्; रोम-लोम; रोरंबः-लोलंचः ।
इत्यादि । अन्यत्र वैदिको रेफो लोके स्वसृभाषासु च लकारो दृश्यते ।
—
यथा -
bisogy
वेदः
रघु (= शीघ्रं )
रम्बते
–
संस्कृतं
लघु
लम्बते ।
लेतिना
लेविस
ग्रीका |
(हे) लखु ।
अपरत्र लोक एव 'कृपो रो लः' इति प्रकरणेन रस्य लत्वं पाणिनिर्विदधाति ।
इयमव्यवस्थैव 'रलयोरभेदः' इति प्रवादस्य बीजम् । अन्येऽप्येतादृशा
अभेदाः प्रसिद्धाः। यथा – बवयोरभेदो वङ्गेषु । दडयोर्लळ्योश्चाभेदो
द्रावडेषु । डळयोरभेदो बामृच्ये, लडयोरभेदः काव्यश्लेषेषु ।
पदानामिव वर्णानामध्येवं रूढयोगिकभेदो दर्शितः । तत्र रूढाः
सर्वासां ऐन्द्ययौरोपभाषाणां साधारणाः । यौगिकेषु तु कचित् कासुचित्,
अन्ये अन्यासु च दृश्यन्ते । एङो ह्रस्वः संस्कृतगोथीकयोर्नास्ति । अका-
रबहुलानि संस्कृतपदानि । ग्रीकालेतिने अकारस्यास्य स्थाने प्रायेण एवं
ह्रखं प्रयुञ्जाते । यथा-
नवन् नवः
संस्कृतं - अष्टौ
ग्री का — होतो
हेणेअ नेओस्
लेतिना–ओक्तो नोवेम् नोवेस् 551
Flise
IR P
दन्त्यमूर्धन्ययोः प्रकटो भेदः संस्कृत एवास्ति । तालव्यश्चवर्गः संस्कृते
छन्दायामपि दृश्यते । महाप्राणाः संस्कृते दश; छन्दायां चत्वारः
संस्कृतसदृशाः, द्वौ कठोरमहाप्राणौ चेति षट्; ग्रीकागोथिकयोराङ्गलीश-
र्मण्ययोश्च त्रयः; लेतिनायां द्वौ । ऊष्माणः छन्दायामाङ्गल्यां च चत्वारः,
संस्कृत शर्मण्ययोस्त्रयः; ग्रीकागोथिकयो; लेतिनायामेकः । मध्यमानुना-
सिकौ प्रायः सर्वसाधारणौ । स्वराणां भेदप्रभेदैर्बहुधा विकारेऽपि मूलस्वरां
अक्षता दृश्यन्ते ।
(1) Gothic
पृष्ठम्:Laghu paniniyam vol2.djvu/९१
दिखावट
एतत् पृष्ठम् अपरिष्कृतम् अस्ति