पृष्ठम्:Laghu paniniyam vol2.djvu/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अक्षरसमात्रायः ।
T
हरति-गृहाती अद्यापि च्छन्दसिं भरतिगृभ्णाती एव । 'हग्रहोभ-
इछन्दास' । लोकेऽपि हन्ति भ्यासान् परतो ञ्णिन्नेषु परेषु च धकारादिः ।
किंबहुना 'चजोः कुपिण्ण्यतोः' इति प्रकरणं समग्रमेवात्रोद्धरणमर्हति । अत्र-
पूजेण्यति कुत्व निषेधस्य सूत्रवार्तिक भाष्येष्वदृष्टत्वान्मुनित्रयस्य जीवित-
काले पूग्यः इत्येव रूपं प्राचरदित्यपि सन्देहस्यावसरो जागर्ति * । भोगः
भोग्यं, पाकः पाक्यं, तिग्मं, रुकूमं इत्यादयः शब्दाः स्वरमध्यमानुनासिक-
योगेऽपि चवर्गस्य बहुत्र कवर्गात्मनैवावस्थानमावेदयन्ति ।
FHDIP
ईदृशीभिर्युक्तिभिष्टवर्गस्तवर्गादुत्पन्न इति दर्शयितुं सुशकम् ।
तत्र 'विनामः' इति कात्यायनेन व्यवहतो नस्य णत्वविधिः, धस्य
ढत्व विधिः, “अञ्मध्यस्थडकारस्य ळकारं बहुचा विदुः ढकारस्य व्हकार
च” इति प्रातिशाख्यं च कतिचन लिङ्गानि । इह कण्ठः, तालु, मूर्द्धा,
दन्तमूलं, ओष्ठौ इति आभ्यन्तरादारभ्य बाह्यक्रमेण वर्णानां स्थानानि ।

तत्र दूरान्तरितस्थानजन्या वणो यथा मिथः प्रस्फुटभेदा न तथा आस
न्नस्थानजन्याः । अतः सीमाद्वयस्य मध्यगता दन्त्यमूर्द्धन्यतालव्या अन-
तिदूरान्तरितध्वनित्वात् संसर्गे व्यतिक्लिश्नते । तदा च स्वतो विकार्यप्रकृति-
को दन्त्यो न केवलमासन्ने मूर्द्धन्ये, अपि त्वेकान्तरिते तालव्येऽपि संसर्गव-
शात् सारूप्यं प्राप्य लीयते । इदमेव श्रुत्वं ष्टुत्वमिति च व्यवह्रियते । इह
दन्त्यैर्विकृतैर्मूर्द्धन्यनिष्पादने प्राकृतभाषाणां द्राविडभाषाणां च संसर्गेण
बहु व्यापतं स्यात् । ता हि संस्कृतदन्त्यान् मूर्द्धन्यान् कुर्वन्ति । यथा-
पत्तनम्-पट्टणम्
दोला- डोळा
| वैदूर्य्यम्–वैडूर्यम्
मन्दोदरी -- मण्डोदरी
शादूलम् - शाडूलम्
भिन्दिपाल: – भिण्डिपाल:
स्थाने – ठाणे
-
दाडिमम्
दालिमम्-है डाडिमम्
अङ्गनम्-–अङ्कणम् ASU
वर्तते – वहृदि

  • 'त्यजिपूज्योश्च' इति काशिकारीत्येदम् । वस्तुतस्तु पूजयतनयं ण्यन्तत्वा-

ण्णिलोपस्य स्थानिवद्भावान्न कुत्वप्रसक्तिः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/९०&oldid=347332" इत्यस्माद् प्रतिप्राप्तम्