अक्षरसमाम्नाय ।
स्वतो दीर्घाणि । तेषु घटकांशयोस्तिलतण्डुलन्यायेन संसृष्टिरेव विवक्षिता,
न तु नीरक्षीरन्यायेन सङ्करः । गच्छता पुनः कालेनावयवश्लेषस्य दार्ज्या-
तिरेकात् भेदबुद्धावेव तिरोहितायां सीसताम्रयोर्विलापितयोरुत्पद्यमानो नवः
कांस्यसंज्ञो लोह इव स्वतन्त्रस्वरा एते संवृत्ताः ।
अतश्च प्राकृतेषु एङो ह्रस्वता दृश्यते । एङ्हस्वो ग्रीकाप्रभृतिषु
स्वसृभाषासु दृष्टत्वात् प्राचीन एव, संस्कृते केनापि कारणेन नष्ट इति
वक्तव्यं वर्तते । ग्रीकालेतिनयोर्यत्र एकार ओकारो वा स्वरः, संस्कृते तत्र
प्रायेण अकारो दृश्यते; अतः पुरातना एड्डिषयाः संस्कृते क्रमादकारेणा-
पहृताः स्युः; उपलभ्यते चाद्यापि पदान्तसकारात् पूर्वस्य अकारस्य क्वचित्
'शिवो वन्द्य' इत्यादौ ओकारात्मनावस्थानम् । प्राकृतेषु तु पदान्तसकारात्
पूर्वस्य अकारस्य ओ-त्वं सार्वत्रिकम् ।
इकार–उकारयोर्गुणवृद्धिभ्यामेचो निष्पद्यन्ते । इक आदावकार-
योगो गुणः । अकारद्वययोगः, आकारयोगः, सकृद्गुणितस्य पुनर्गुणनं वा
वृद्धिः। अ+इ=ए; अ+उ =ओ; अ+अ+इ=ऐ; अ+ अ + उ =औ ;
ऋकार-ऌकारौ गुणवृद्ध्योः क्रियमाणयोः कार्यवशादारोपितं स्वरधर्ममु
त्सृज्य निजं व्यञ्जनभावमेव प्रतिपद्येते । अतो गुणितऋकारः अर् इति
रूपं प्राप्नोति । वर्धितः आर् इति च । एवं ऌकारः अल्, आलू इति ।
गुणाख्यो विकार आर्यभाषाणां साधारणः, वृद्धिस्तु संस्कृतमात्रदृष्टः ।
इको यणश्च विजातिक्षेत्रजा भ्रातर इव जातिमात्रेण केवलं भिद्यन्ते ।
प्रसार्योच्चारिता यण इको भवन्ति । सङ्कोच्योच्चारिता इको यणश्च । तत्र
रेफलकारौ स्वरदशायामप्युत्कटव्यञ्जनांशाविति विशेषः । अनेन ‘इको
यणचि' इति सन्धिः सम्प्रसारणं च व्याख्यातम् । यण्-सन्धिः पदान्ते
सार्वत्रिकप्रायः, पदमध्ये त्वेकाक्षराणामङ्गानां स्वरापहारेण वैरुप्यं, संयोगपू-
र्वाणां व्यञ्जनान्तरयोगेन दुःश्रवता च मा भूदिति यूवोरियडुवङौ ऋयिते ।
'एचोऽयवायावः' इति विश्लेषितयोवर्यणेव। प्रश्लेषसन्धिरवाप्योरुपसर्गयोर-
ल्लोप इवावीचीनैरवतारितः । अत एव च्छन्दसि तत्र प्रकृतिभावो विधीयते ।
पृष्ठम्:Laghu paniniyam vol2.djvu/८७
दिखावट
एतत् पृष्ठम् अपरिष्कृतम् अस्ति