पृष्ठम्:Laghu paniniyam vol2.djvu/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाषाचरित्रम् ।
श्लोकोक्तरीत्या चरित्रैरप्रहते पुरातनकाले एण्यामहाखण्डस्य मध्य-
सामामधिवसन्त आर्यव्यपदेशभाजो जना अभिष्यन्दवमनन्यायेन प्राक्
पश्चाच्च प्रसरन्तः शनैः शनैरिन्द्यामण्डलम्, युरोपखण्डस्य भूयांसं
भागं च विजित्य तत्रावात्सुः । तेषामभिष्यन्दवमनात् पूर्व सर्वसाधारणी या
भाषा तावदासीत् सा आर्यकुलकूटस्था मूलार्यभाषेत्युच्यते। इयं प्राधान्येन
इन्द्यायां युरोपखण्डे च दृष्टेति हेतोः पाश्चात्यैः ऐन्द्ययौरोपी (Indo-
European) इति व्यपदिश्यते । तस्याः शाखाप्रवर्तिकाः सप्त दुहितरो
ज्ञाता:- १. संस्कृतप्रवरा भारतीयशाखा, २. छन्दप्रवरा ऐरेणिके
(पारसीक) शाखा, ३. लित्तिकै लाविकशाखा, ४. ग्रीसैतालिक-शाखा,
५. केल्तिके शाखा, ६. यूँटाणिक शाखा, ७. शर्मण्यँशाखा चेति।
एतासां शाखोपशाखाप्रतानसङ्कलस्य सन्तानस्य गाढेन पर्यवेक्षणेनाद्य कूट-
स्थाया मूलार्यभाषायाः प्रतिष्ठा, शाखासु प्रवराणां बाल्यचरितं च विज्ञातं
वर्तते । तत्र संस्कृतभाषाचरित्रस्य दिक्प्रदर्शनमात्रमत्र क्रियते ।
1890
-
-
HANSICHT
अक्षरसमाम्नायः । र
1519 1
18 स्वरेषु प्रथमे त्रयो (अ इ उ ) मूलभूताः । सन्ध्यक्षराणि (ए ओ
ऐ औ) अन्वर्थनामान्येषां मिथो मिश्रणेनोत्पन्न नि । ऋकारलकारौ विचार-
प्रयत्नेन स्वरीकृतौ रेफलकारावित्येव । 'कृपो रो लः' 'तावैच इदुतौ' इति
सूत्रयोर्व्याख्याने उभयमपि विचारितमिदम् । मूलम्वरेषु अकारस्तीत्रयत्नः,
इकारो मदुयत्नः, उकारो मध्ययत्नः इत्यस्ति विवेकः । अस्योपपत्तिरुपरि-
ष्टाद्वक्ष्यते । केवलस्वराणां (अकां) द्विरुक्तौ संश्लेषेण दीर्घः । त्रिरुक्त्या-
दिरुच्चारणे विशेषादर्शनान गण्यते । अत एव 'अकः सवर्णे दीर्घे'
विहितः । द्रुतं तु मिन्नस्वरूपो विकारः । सन्ध्यक्षराणि संयोगरूपत्वात्
reco-Italic
१. Zend २. Iranian ३. Lito-Slav ४. Greeco-Italic
५. Keltic ६. Tutonic . German

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/८६&oldid=347328" इत्यस्माद् प्रतिप्राप्तम्