पृष्ठम्:Laghu paniniyam vol2.djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाषाचरित्रम् ।
अत्रादावयं भूमिकाबन्धः क्रियते यथा भारतखण्डेऽत्र देश्य-
भाषाणां सर्वासामुपजीव्यत्वेन संस्कृतमाकारभाषापदं भजति तथा युरोप-
महाखण्डे 'लेतिनों' इति प्रथिता रोमकभाषा', 'ग्रीको' इति प्रथिता यवन-
भाषा च तत्स्थानं वहतः । बाल्य एव स्वदेशाकरभाषयोग्रकालेतिनयोः
कृतपरिचयाः जोणसँ–कोल्चेकप्रभृतयः आङ्गलेयाः सूरयः कार्यवशाद-
त्रागत्य यावत् संस्कृतमधीयते तावदेकतः संस्कृतस्यान्यतो ग्रीकालेतिनयोश्च
सोदर्याणां स्वसृणामिव प्रस्फुटो यौनसम्बन्धस्तेषां प्रत्यभात्; तन्मुखेन
च स्वदेशाकरभाषयोः प्रवयाः काचिज्ज्येष्ठभगिनी विदेशे पूजिता जीव-
तीति विदितवृत्ताः शर्मण्य-पैराङ्किप्रभृतय इतरे युरोपवर्गीया: कुतुकभरि-
तास्तदुपासनाय सर्वतः प्रयत्नमारेभिरे । ततःप्रभृति तैः प्रवर्तितं भाषा-
विज्ञानीयाख्यं शास्त्रं क्रमेणोपचितमद्य प्रतिष्ठोन्मुखं वर्तते । वयमप्येवमुप-
ज्ञातयोरास्माकाकरभाषायाः कनिष्ठभगिन्योर्मुखपरिचयमण्यन्तनः कर्तुम-
होम इति शिष्यानुद्बोधयामः । भाषासाम्येनान्यैश्च सुपरीक्षितैर्लिङ्गै युरो-
पवासिनां इन्द्यावासिनां च जनानामेकवर्ग्यत्वं निर्णीतमन्तर्वाणिभिः ।
"अत्रेतिहस्म प्रवदन्ति सूरयः पुरा किलेण्याक्षितिखण्डमध्यगाम् ।
अधित्यकां हिन्दुकुषाख्यभूधरस्याध्यूपुरैरार्यव्यपदेशिनो जनाः ॥
जनार्णवे तत्र विमर्दतस्ततः स्थानादभिष्यन्दिनि केचिदूर्मयः ।
हिमाद्रिकूटान्तरवर्तिवर्त्मना प्रपेदिरे भूमिमिमां सहस्रशः ॥
-आमालसाम्राज्यम् ।
अन्ये पुनः पश्चिमतः प्रसर्पिणो विलमय शैलान् विविधान् नदीरपि ।
इतौलियाग्रीसमुखेषु लेभिरे यौरोपनीवृत्सु निवेशनं शनैः ॥

  • Classic language. १. Europe. २. Latin. ३. Greek.

%. Sir
७. French. ८. Philology. ९. Asia. १०. Hindukush
११. Aryas. १२. Italy. १३. Greece

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/८५&oldid=347326" इत्यस्माद् प्रतिप्राप्तम्