पृष्ठम्:Laghu paniniyam vol2.djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अक्षरसमाम्नायः ।

12
व्यञ्जनानि मध्यमो, ऊष्माणः, वर्गपञ्चकघटिताः स्पर्शाश्चेति त्रिधा
विभक्तानि । ऊष्मसु हकार एको विलक्षणध्वनिरनिरुक्तस्थानश्च । मृदुभि-
र्घटितोऽयं महाप्राणप्रकृतिस्तान् घोषीकरोतीति प्रातिशाख्यकारा आहुः ।
‘झयो होऽन्यतरस्यां' इति पूर्वसवर्णविधिः, ऋग्वेदीय ळकारलेखनसम्प्रदाय-
श्वामुमर्थं विशदयतः । खराणामतिखरीकरणमपि हकारयोगनिबन्धनं प्रति-
भात; किन्तु तत्र न किञ्चिन्निर्णायकं लिङ्गमस्ति । घोषप्रयत्नवतो हकारस्य
योगेन निष्पन्नाश्चेदतिखराः कथमघोषा दृश्यन्त इति सन्देहश्च जागर्ति ।
ग्रीकाभाषायां 'छिंद द्वैधीकरणे' इति धातोः 'स्किद' इति, 'गछति' इत्यस्य
'बस्को' इति च रूपस्य दर्शनात् छकारः 'स्क' इति संयोगादुत्पन्न इति
केचिइन्नयन्ति । ‘छे च' इति तुग्विधानेन दृश्यते च छकारस्य संयोगसमान-
योगक्षेमा दशा । खकार एवं क्श इति संयोगादुत्पन्नः स्यादिति *तर्क-
यामि । भाष्यकारो हि चक्षिङः ख्शाञ $ इति पठित्वा असिद्धकाण्डे शस्य
यो वा वक्तव्य इत्याह । रुत्वप्रतिषेधादिप्रयोजनमुद्दिश्य कृतोऽप्ययं पाठो
यकारादेशस्य विकल्पनाच्चारणसाम्यमनुमापयति । 'अक्खिदत्' 'अक्खिद्रा
'परिक्खिदते' इति तैत्तिरीयसंहितायां खिदधातुरूपेषु खकारस्य द्वित्व-
करणदर्शनमप्यस्मदूह मनुकूलयति । 'शश्छोऽटि' इति शस्य छत्वविधानस्य
'छ्वोः शडनुनासिके च' इति वैपरीत्येन छस्य शत्वावधानस्य च स्वारस्य-
पर्यालोचने छकारेऽपि महाप्राणबीजं शकार एव स्यादिति तर्कस्याव-
काशोऽस्ति । महच् शास्त्र इति वैकल्पिकस्य छत्वस्याकरणेऽपि ध्वनौ न
par
७७
ग्रन्थकर्तुः स्वकपोलकल्पितोऽयमूह इत्येकवचनप्रयोगः । एवमन्यत्राप्येकवचभ-
प्रयोगेषु द्रष्टव्यम् । $ किञ्च, यदि ख्शादिरयमादेशस्तर्हि चक्षिङमेव प्रत्याख्यास्यामः ।
जुहोत्यादावेनं पठित्वा श्नाभ्यस्तयोरातो लोपेन चष्टे चक्षाते चक्षते इत्यादीन्यस्या-
भीष्टानि रूपाणि च सम्पादयिष्यामः । 'ई हल्यघोः' इतीत्वविधायके सूत्रे 'अघु.
ख्शोः” इति ख्शोऽपि प्रतिषेधो वक्तव्य इत्येव । ख्शा-द्वित्वे चख्शा । आल्लोपसंयोगा-
दिलोपषत्वष्टुत्वैः चष्टे । चक्शाते । चक्षते इति षकारश्रवणार्थमसिद्धकाण्डे शस्य षोऽपि
पठितव्यः । अनेन भाष्यकारस्य
प्रतीयते। ‘चचक्षे’ इति लिटि वैकल्पिकं रूपमेव दुर्घटम् ।
ख्शादिपाठोपक्षेपो निर्मूलः प्रीढियादो न स्यादिति

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/८८&oldid=347330" इत्यस्माद् प्रतिप्राप्तम्