पृष्ठम्:Laghu paniniyam vol2.djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रस्थानचर्चा ।
लोकवेदयोर्युगपदुपकारकस्य व्याकरणस्य प्रणयनाय प्रवृत्तत्वात्
आगमिकमेव प्रस्थानं भूयसानुसरति पाणिनीयं तन्त्रम् | तस्य च ताह-
शत्वादेव स्वपूर्वतरेभ्यः स्वानन्तरोत्सन्नेभ्यश्च शब्दशास्त्र प्रस्थानेभ्यो
महीयसी प्रतिष्ठा लोके जाता । दाक्षीपुत्रस्य पाणिनेस्तन्त्रं दाक्षायणत्वेन
स्वमातृभ्रातृव्य एव व्याडिराचार्यो लक्षश्लोकात्मकेन संग्रहाख्येन ग्रन्थेन
प्रपञ्चितवान् । ततः कात्यायनः शेषपूरणप्रायैर्वार्त्तिकैरुपबृंहितवान् ।
सर्वोपरि च भगवान् आदिशेषावतारत्वेन प्रथितः पतञ्जलिर्वार्तिकतरंगिणी-
भिरुपबृंहितमेव पाणिनीयाष्टकमहार्णवं सर्वङ्कषप्रसरेण श्रीमद्व्याकरणमहा-
भाष्यमन्दरेण विलोड्य शब्दानुशासनरहस्यामृतं तृषितेभ्यो विबुधेभ्यः
समर्पितवान् । ततो व्याडिपक्षपातादसुरप्रख्यैः कैश्चिन्मत्सरिभिराच्छिद्य
लोप्यमानं महाभाष्यं महाविष्णुकल्पः कोऽपि कश्मीराधिपतिरुद्धृत्य पुन-
रपि विबुधायत्तम करोदित्यैतिह्यं राजतरङ्गिणी प्रस्तौति । अद्यत्वे पुनर्व्या-
डिग्रन्थो निश्शेषं लुप्तः; वार्तिकानि च भाष्यारूढान्येवोपलभ्यन्ते । अथ
भाष्यामृतपान तर्पितान्तर भर्तृहरिर्व्याकरणोपनिषद्भूतं वाक्यपदीयं
प्रणिनाय । धातुपाठं माधवो व्याचख्यौ । गणपाठं गणरत्नमहोदधि-
कार इति सर्वाङ्गीणैर्व्याख्यानैर्दृढीकृता पाणिनीयस्य प्रतिष्ठा ।

यत् प्रतिपादितमागमानुसारित्वाद्दशाविशेषविचारं विना कृत्स्नां
संस्कृतभाषामनुगृह्णाति पाणिनेः शब्दानुशासनमिति तत् भूयोभिप्रायेण ।
अभ्यूहोऽपि क्वचित् क्वचिदादर्तव्य एवासीदाचार्यस्य | किन्त्वत्र दुर्घट-
प्रकृतिरागमिकमार्ग एवापराध्यति, न पुनस्तन्त्रकारः । प्राक्चरित्रं तावत्
'प्रयत्नादनुस्त्रियमाणमपि कियद्दूरं प्रतिपत्तुं शक्यते? निरर्गलनिर्गलदमलसलिल-
कल्लोलहल्लोहलैराप्लावितानल्पदेशावकाशा काशीनगरे दृश्यते भगवती
भागीरथी । तस्याः पुनरत्युच्छ्रितहिमवच्छृङ्गान्तर्गतानन्तनीरसिरानिष्य-
न्दिश्वभ्रगर्भनिलीनं प्रभवं भगीरथ एक एव जानीते । एवमेव महाकवि-
सूक्तेष्वधरितसुधारसाभिः सरसवाचोयुक्तिभिराविष्कृत परिपूर्णतारुण्यप्रौढि-
मया गैर्वाण्या वाण्या पांसुक्रीडोचितेषु शैशवदिनेषु कानिकानि म्लिष्ट-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/८३&oldid=347323" इत्यस्माद् प्रतिप्राप्तम्