पृष्ठम्:Laghu paniniyam vol2.djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रस्थानचर्चा ।
1
लौकिको धर्मः । अत एवोपसर्गसर्वनामादयो गणेन परिगण्यन्ते । 'ताद्ध-
-तश्चासर्वविभक्तिः' इत्यव्ययेषु केषाञ्चित् सूत्रकृता सामान्यलक्षणे उपा-
त्तेऽपि वार्तिककारः परिगणनमारभते ।
अर्क

४. प्रस्थानचर्चा ।
व्याकरणं तावद्वेधा प्रणेतुं शक्यते । व्याविकीर्षिताया भाषाया-
स्तदात्वदृष्टं रूपसिद्धिसम्प्रदायं सम्यक् परीक्ष्य यस्यां कल्पनायां तदुप-
पादनं सुकरतमं प्रतीयते तामाश्रित्य तन्त्रयितव्यम् । अयमेको मार्गः योऽय-
- मभ्यूहनिष्पन्नत्वादाभ्यूहिको भवति । उद्दिष्टाया भाषायाश्चरित्रमन्विष्य निर्णी-
तामादिमावस्थामास्पदीकृत्य ततः सावधानमनुधाव्य तदातदोत्पन्नानां
विकाराणां व्यवस्थापनमन्यो मार्गः । योऽयमागम निबन्धनत्वादागामकव्य-
पदेशमहाते । अनयोः पूर्वः सुकरतरः सद्यः प्रयोजनकरश्च; अन्यस्तु
व्यापको दृढतरप्रतिष्ठश्च । मार्गयोर्भेदमुदाहरणैः स्पष्टीक्रियते–भगवतः
सूत्रकारस्य गोत्रनाम पाणिनिरिति । तदेतत्, दक्षस्यापत्यं दाक्षिरितिवत्,
‘अत इञा' पणिनस्यापत्यं पाणिनिरित्येव आभ्यूहिकमार्गप्रवृत्तो वैयाकरणो
निब्रूयात् । निरुक्तवांश्च तथा परमार्थतः “भणपणिनजशास्त्रे तातङः स्थानिनौ
कौ” इति प्रयुञ्जानो नैषधकारः । वस्तुतस्तु पणिनोऽपत्यं पाणिनः, तस्यापत्यं
युवा पाणिनिरित्येव शब्दव्युत्पत्तिः । कथमिदमागमानभिज्ञो जानीयात् ?
अथ शिवस्+अर्च्यः = शिवोऽर्च्यः इति सन्धिः प्रतिपादनीय इत्यस्तु । अत्र
प्रथमं सस्य रुः, ततस्तस्य उः, आद्गुणः, 'एङः पदान्तादात' इति पूर्व-
रूपं इति हि आगमिकः पाणिनिः प्रक्रियामाह । आभ्यूहिकस्तु आच-
क्षीत – किमनेन चित्रवधेन? पदान्तसकारः पुरस्तात् परस्तादपि अकारहू-
स्वेन सम्पुटितो दृश्यते चेत् सशृङ्गस्य सलाङ्गलस्य तस्य एकपदे ओका-
रेणादेशः क्रियतां इति । पर्याप्तं चैतावत्, यदि संस्कृतमात्रस्य व्याक
रणं चिकीर्ष्यते । शिवो अर्च्य इति च्छान्दसः सन्धिर्नघटेतेत्येव ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/८२&oldid=347322" इत्यस्माद् प्रतिप्राप्तम्