पृष्ठम्:Laghu paniniyam vol2.djvu/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लक्षणकरणम् ।
1
एवं स्थिते लाघवप्रियः पाणिनि: 'तनादिभ्य उः' इति किमित्यपूर्व
विकरणं कल्पयति ? यथाशङ्कितमनिष्टरूपापत्तिशवाचार्यस्य प्रधानं
कारणं स्यात् । घातूनां प्रयोगविषयसङ्कोचनमाचार्यस्यानिष्टं च प्रतिभाति ।
यतः स खिलधातूनन्योन्यादेशान् प्रकल्प्य सार्वत्रिकात् करोति । किञ्च-
घृणिशब्दव्युत्पादनाय घृण-धातु: क्षणशब्दव्युत्पादनाय क्षणुधातुश्चापे-
क्षितः । अव्युत्पन्नेषु केवलधातुष्वदन्ता न सन्तीति सनाद्यन्तार्थमार-
ब्धस्य 'अतो लोप'म्य प्रतिषेधः कर्तव्यः स्यात् । इत्यायूह्यम् | कृञ
उ - प्रत्ययोऽवश्यं वक्तव्यः । स दीपकन्यायेन तनादीनामप्युपकरोत्वित्ये-
वाचार्यस्य हृदयं स्यात् । अन्यथा तनादौ पठितं कृञ किमिति पृथ-
ग्गृह्णाति ?

PAVE
Moun
३. ढ कॄ पॄ इत्यादयः ॠदन्ताः पठिता घातवो वस्तुतः तर्,
किर्, पुर्, इति रेफान्ता एव भवितुमर्हन्ति । ऋकारयुक्तानि हि रूपाणि
न कुत्रापि दृश्यन्ते । कुत्राप्यदृष्टं प्रकृतिरूपं च कृत्रिममेव भवितु-
मर्हति । एवं खट्दादीनां आदन्तस्त्रीलिंङ्गशब्दानां आदन्ताट्टापा निष्पा-
दनं, अव्ययेषु सुप उत्पाद्य लोपनं, क्वित्रादि सर्वलोपिप्रत्ययस्वीकारः,
सिजादीनां स्थानित्वेन च्ले: प्रवेशनं इत्यादयोऽसंख्येया अर्थाः किञ्चित्
किञ्चित् प्रयोजनं पुरस्कृत्य कृताः कल्पना इति विचारपथदत्तदृष्टीनां
स्वयं स्पष्टीभविष्यति ।
MIN
३. लक्षणकरणम् ।
अथ
‘प्रधानप्रत्ययार्थवचन' वत्, कालोपसर्जन योरप्यशिष्यत्वं
वदन् पाणिनिः किमभिप्रैतीति पश्यामः । इह व्याकरणे शास्त्रान्तरव-
दनुगत कावद्धर्मभवलम्ब्य साङ्केतिकपदानां लक्षणकरणमाचार्याय

रो त । तथाच प्रत्ययः, पदं, धातुः, समासः, कारकं निपातः, उपसर्गः,
अव्ययं, सर्वनाम इत्यनेकेषु सङ्केतेषु नैकोऽपि व्यावर्तकधर्मोपदेशेन
17

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/८०&oldid=347319" इत्यस्माद् प्रतिप्राप्तम्