सामग्री पर जाएँ

पृष्ठम्:Laghu paniniyam vol2.djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वतन्त्र कल्पनाः ।
नाना कल्पयितुं शक्यते । वारणसीं प्रस्थितः पुरुषो यथा राजपथेषु बहु-
ष्वाशुगामिनमादत्ते तथा शिष्य उपायबाहुल्ये लघुतममाद्रियेतति मुनेर-
भिप्रायः । अतो लाघवमात्रे दत्तदृष्टिः स बहुत्र
तथा हि-
खातन्त्र्यं करोति ।
PON
K
१. जक्षित्यादीन् सप्त धातून् कृतद्वित्वानेव धातुपाठे पठित्वा तेषा-
मभ्यस्तसंज्ञां प्रतिज्ञातवान्, न पुनर्गुप्तिजादिभ्यः स्वार्थे सन्प्रत्ययमिव
तेषां सर्वत्र द्वित्वमुपदिष्टवान् । 'जक्षित्यादयः षट्' (६०१) इतिसूत्रव्या-
ख्यानं दृश्यताम् । शक्नोतेः सनि यथा शिक्षतिर्निष्पादितस्तथा भजतेः
सनि भिक्षतिर्निप्पादनीय आसीत् । एवं कृते भिक्षुः भिक्षा इति कृद्रूपाणि
च 'सनाशंसमिक्ष उ' इति पृथग्यनं विनैवोदपत्स्यन्त । लाघवमिदं
कथमाचार्यस्य न प्रत्यभादिति चित्रीयामहे । 'शिक्ष विद्याग्रहणे' इति
भूवादौ पृथक् पाठस्तु केनापि प्रक्षिप्तः स्यात् । एवं धातुपाठे अदादिषु
चुरादिष्वन्यत्र च बहवो व्युत्पादनक्षमाः क्रियाप्रकृतयः केवलधातुत्वेन
पठिता इति सूक्ष्मधियामपरोक्षम् । अनेकाचः सर्वेऽपि धातव ईदृशा एव ।
कण्ड्डादिर्धात्कृतानि नामान्येवेति सर्वो जानाति । नकारादीनां घातूनां
णोपदेशतया सकारादीनां षोपदेशतया च पाठः प्रयोजनमुद्दिश्य कृत इति
सुप्रसिद्धम् । तद्वदेव आकारान्तानामेजन्तत्वेन पाठोऽपि । 'षो अन्तक
र्मणि' इत्यादीनामोदन्तं रूपं न कुत्रापि दृश्यते । कुत्राप्यदृष्टं रूपं च
कथं सहजं भवेत् ? इदमस्वारस्यं मनसि निधायैव, मन्ये, 'आदेच
उपदेशे........' इति सूत्रयत्याचार्यः । प्रयोजनमुद्दिश्यैते एवमुपदिष्टाः,
न तु वस्तुतस्तादृशास्ते ।
२. विकरणेषु भोः पृथक् उ-प्रत्ययः किमर्थं कल्पित इति
सन्देहो जायते । तनादिस्तावत् तनु, षणु, क्षणु, क्षिणु, ऋणु, तृणु,
घृणु, वनु, मनु, कृञ् इति दशभिर्धातुभिर्घटितः । तेषु कृभिन्नाः
सर्वेऽपि नान्ताः । कृञश्च गणपाठेनातृप्त आचार्यः “तनादिकृञ्भ्य:
इति पृथगुप्रत्ययं शास्ति । अन्ये नव नकारं विना स्वादिषु पठिताश्चेद-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/७८&oldid=347317" इत्यस्माद् प्रतिप्राप्तम्