पृष्ठम्:Laghu paniniyam vol2.djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वतन्त्र कल्पनाः ।
वासे प्रसक्ते कोसलानामपि पञ्चालसंज्ञा प्राप्नुयात् । अतः संज्ञासु योगा-
र्थकल्पनं प्राचीनमतानुरोधादारव्धमित्येव । न तु वस्तुतः स्वस्याभिप्रेत-
मिति तात्पर्यम् । प्रसङ्गादन्यानपि वैयाकरणसमयान् खण्डयति-
(१९९८) प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात् । १ ।२ । १६ ।
प्रधानप्रत्ययाभ्यामर्थवचनमप्यशिष्यं अर्थस्य लोकतः सिद्धेः ।
पूर्वाचार्या हि परिभाषन्ते- प्रधानोपसर्जने प्रधानार्थं सह ब्रूतः’ ‘प्रकृति-
प्रत्ययौ सहार्थं ब्रूतः' इति। शब्दानामर्थप्रतिपादकत्वं लोकसिद्धं; वैया-
करणसिद्धान्तान् नापेक्षते । अनधीतव्याकरणोऽपि वाक्यं श्रुत्वोद्दिष्टे
कर्माणि प्रवर्तते । अतो राजपुरुष इति समासे राजपदमुपसर्जनं, पुरुषपदं
प्रधानं; तथा दाशरथिरिति तद्धिते प्रकृत्यर्थः प्रत्ययार्थस्य विशेषणं, तयोश्च
युगपदेवार्थबोधो न तु भिन्नयोः; इत्यादिर्वादो वैयाकरणस्याभिमानमात्रमिति
भावः ।
(१९१९) कालोपसर्जने च तुल्यम् । १ । २ । १७ ।
अद्यतनः काल एतावान्, एवमेवविधं पदमुपसर्जनमित्यादि-
नियमोऽपि न कर्तव्यः । सर्वजनीना एते व्यवहारा नियमनं नापेक्षन्ते,
नापि शक्यन्ते नियन्तुमिति भावः ।
२. स्वतन्त्र कल्पनाः ।
परमतखण्डनेनानेन सुशब्दव्यवस्थापने शब्दशास्त्रस्य कियद्दूरमधि
कारं पाणिनिरन्विच्छतीति स्पष्टीभवति । स न मन्यते यथा जनस्य पच-
नजलाहरणाद्यर्थ कुलालो घटान् करोति तथा वैयाकरणः सम्भाषणार्थ
शब्दान् करोतीति । यदि पुनः पाणिनीयस्यर्व्याख्यातारः'इदमपाणिनीयं एत-
द्भाष्यविरोधादुपेक्ष्यं' इत्यादि वल्गन्तः कोलाहलं कुर्वन्ति तत्राचार्यः किम-
पराध्यति? अनादिरखण्डो लोकसिद्धः शब्दः । तं शि
शिष्यव्युत्पादनाय
वैयाकरणः प्रकृतिप्रत्ययादिविभागोर्वशकलयति । उपायश्चायं यथाप्रति

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/७७&oldid=347316" इत्यस्माद् प्रतिप्राप्तम्