सामग्री पर जाएँ

पृष्ठम्:Laghu paniniyam vol2.djvu/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्तस्योदात्तत्वे शेषनिघातः ।
समासस्वरः ।
अथास्यापवादः प्रकृतिभावः-
(१९४९) बहुव्रीहौ प्रकृत्या पूर्वपदम् | ६ | २ | १ |
बहुत्रीहौ पूर्वपदस्य व्यस्तदशायामुदात्तः स्वरितो वा यः स्वरः
स्वतः सिद्धः स एव न तु समासनिबन्धनोऽन्तोदात्तः । (पूर्वपदस्य सर्वानु-
दात्तत्वे तु अन्तोदात्तः सावकाश एव ) यथा
-
श्रोत्रिय पुत्रः – ‘श्रोत्रियन् छन्दोऽधीते' इति नित्त्वादाद्युदात्तः ।
कार्ष्णेत्तरासङ्गः–कार्ष्णशब्दोऽनन्तत्वात् जित्त्वेनायुदात्तः ।
समासैरेव पूर्वोत्तरपदे असकृत् प्रकल्प्य ग्रथितेषु दीर्घदीर्घसमासेषु स्वरः
कथं निर्णीयत इति न भेतव्यम् । परास्तस्वरयन्त्रणैराधुनिकैरेव तादृशाः
समासाः प्रयुज्यन्ते । विशेषविधयो नात्र व्याख्यायन्ते । ते सूत्रपाठादव-
गन्तव्याः । एवमग्रेऽपि ।
(१९१०) तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाव्ययद्वितीयाकृत्याः
।६ । २।२।
एते तत्पुरुषे प्रकृत्या स्युः । यथा-
-
तुल्यश्वेतः, सदृशश्वेतः, शंकुलाखण्डः, शस्त्रीश्यामः इत्यादि ।
(१९११) गतिकारकोपपदात् कृत् । ६ | २ | १३९ ।
कारकादुपपदाच्च कृदन्तमुत्तरपदं तत्पुरुषे प्रकृतिस्वरं स्यात् ।
गति — प्रहरणं – ल्युटः कृत्प्रत्ययस्य लित्स्वरः ।
गतेः
यथा-
-

कारक — इध्मवचनः =
उपपद – सुकरः - खलः
"
(१९९२) उभे वनस्पत्यादिषु युगपत् । ६ । २ । १४० ।
एषु पूर्वोत्तरपदे युगपत् प्रकृत्या स्याताम् । तेन वनस्पतिः बृहस्पतिः ।
इत्यादयो युदात्ताः । उदात्तश्च पदयोरादौ ।
"
"
"
"
(१९५३) देवताद्वन्द्वे च । ६ । २ । १४१ ।
ww
उभे प्रकृत्या । तेन इन्द्राबृहस्पती इति पदं त्र्युदात्तम् । त्रीण्य-
प्याद्युदात्तानि पदानि ।
(१९५४) थाथघकाजबित्रकाणां (अन्तः) ६ । २ । १४४ |

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/७३&oldid=347312" इत्यस्माद् प्रतिप्राप्तम्