समासस्वरः ।
६१
प्रयोगेष्वपि तैर्नोदासितम् । उक्तरीत्या लुटस्तिङन्तत्वाभावादेव सिद्धो
निघाताभावः । आचार्यस्तु व्याकरणप्रणयनकाले लुटोऽपि लकारान्तरतुल्य
योगक्षेमतां पश्यन् तस्य लकारेष्वेकतमत्वमभ्युपत्यानुदात्ततां निषेधति ।
१९४४) निपातैर्यद्य दिहन्त कुविनेचेच्चण्कच्चिदत्रयुक्तम् ।
।८।१ । ३० ।
निपातैरेतैर्युक्तं तिङन्तं न निहन्यते । स्पष्टमुदाहरणम् । अथ
त्रिंशत्प्रायैः सूत्रैः नह, सत्यं, अङ्ग, हि, यावत्, च, वा, एव, अहो,
ननु इत्यादीनां निपातान्तराणामपि योगे तिङन्तनिघातं निषेधत्याचार्यः ।
अनेकार्थानां केषांचिदर्थभेदनिबन्धनमपि करोति निषेधम् । ग्रन्थविस्तर-
भयात्तत्प्रपञ्चोऽत्रोपेक्ष्यते ।
(१९४५) यद्वत्तान्नित्यम् । ८ । १ । ६६ ।
यच्छब्दरूपावलिर्यद्वृत्तम् । तस्मात् परं तिङन्तं नानुदत्तम् । प्रक-
रणेऽस्मिन् अव्यवधानेन परत्वं न विवक्षितमिति ज्ञापकात् सिद्धम् ।
अतो यच्छब्दरूपघटितस्य वाक्यस्य तिङन्तं न निहन्यत इत्यर्थो
लभ्यते । एवञ्च विशेषणवाक्येषु 'तिङतिङः' इति निघातो न कार्य इति
फलति ।
(१९४६) गतिर्गतौ (अनुदात्तः) ८ । १ । ७० ।
अनेकोपसर्गसमवाये पूर्व पूर्वमनुदात्तम् । यथा-
अभ्युद्धरति समुदानयति अभिसम्पर्याहरति ।
(१९४७) तिङि चोदात्तवति । ८ । १७१ ।
गतिरनुदात्त: । 'निपाता आद्युदात्ता' इत्यस्यापवादः ।
1575
1828) -
(७) समासस्वरः ।
णी (१९४८) समासस्य (अन्त उदात्तः) ६ । १ । २२३ ।
उत्सर्गतः समासा अन्तोदात्ताः । यथा-
राजपुरुषः । ब्राह्मणसमित् ।
पृष्ठम्:Laghu paniniyam vol2.djvu/७२
दिखावट
एतत् पृष्ठम् अपरिष्कृतम् अस्ति