पृष्ठम्:Laghu paniniyam vol2.djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लुटोऽनुप्रयोगानष्पन्नत्वम् ।
वन्द्यौ' 'ब्राह्मणा भोजनप्रियाः' इत्यादौ । भवितासि भवितास्थः भवितास्थ ।
भवितास्मि भवितास्वः भवितास्मः । एषु असि स्थ: स्थ, अस्मि स्वः स्म
इति अस्तिरूपाणि स्फुटानि । द्विबहुवचनयोः भवितारौ स्थः, भवितारौ
स्मः इति रूपे कृत एवान्वयो घटेत इत्याक्षेपस्त्वकिञ्चित्करः । तथैव 'इयं
रूपिणी भविता' इत्यादौ लिङ्गव्याघातश्च नगणनीयः । ‘शक्यमञ्जलिभिः
पातुं....' इत्यादौ सामान्ये नपुंसकवदत्र सामान्ये पुलिङ्गैकवचनमित्येव ।
तृज्वाच्यं कर्तृत्वं पुन्धर्म इति पुल्लिङ्गरूपमुपात्तम् । किञ्च 'अस्ति'
'आह' इत्यादीनां विभक्तिप्रतिरूपकाव्ययत्वे 'वयमस्ति' 'ऋषय आह
इति प्रयोगो यथा दुर्वारस्तथा तृचोऽपि संस्करणप्रत्ययस्थानाभिषेके लिङ्ग-
वचनोपाध्यपरिच्छिन्नः प्रयोग इति सुलभः समाधिः । आत्मनेपदेऽपि ‘से
साथे ध्वे, हे स्वहे स्महे, इति सर्वे व्यतिस्ते इत्यस्तेरात्मनेपदे स्थितमेव
रूपम् । त्रैकालिकस्य तृचो भाविकाले व्यवस्थापनं च सङ्केतायत्तम् ।
किञ्च ‘पुरोपकण्ठोपवनं किलेक्षिता दिदेश यानाय निदेशकारिणः' (नै. च.)
'शोभामद्रेः स्तिमितनयनप्रेक्षणीयां भवित्रीम्' (मे. सं.) इत्यादिषु प्रयोगेषु
तृचो भाव्यर्थे प्रयोगः स्वारसिको दृश्यते । एवं आमन्तो लिंडिव लुडप्य-
नुप्रयोगनिष्पन्नः । अनुप्रयोगैराख्यातरूपनिष्पादनपद्धतिश्च वैदिकदशान्त
एव संस्कृतेऽवतारिता । अत एव आमन्तो लिट् 'अमन्त्रे' इत्याचार्येण
मन्त्रे निषिद्धः । ब्राह्मणेषु तु सानुप्रयोगो लिडिव लुडपि कदाचिदृश्येत ।
लिटि यथा व्यवहितोऽप्यनुप्रयोगः काळिदासादिग्रन्थेषु दृश्यते तथा
लुट्यपि । यथा-
'अन्तश्शुद्धस्त्वमसि भविता वर्णमात्रेण कृष्णः' (मे. सम्.)
'ततोऽस्मि शकुनिं हन्ता मिषतां सर्वधन्विनाम्' (भार-उद्यो- १६१-३७).
'गत्वा सद्यः फलमविकलं कामुकत्वस्य लब्धा'
इति मेघसन्देशश्लोके ‘लब्धासे' इति वक्तव्ये प्रथमपुरुषवन्मध्यमेऽप्यनु-
प्रयोग विना 'लब्धा' इति प्रयुङ्गे महाकविः । व्याख्यातारस्तु प्रयोगानी-
दृशानन्यथानयनेन साधूकुर्वन्ति चेत् 'तं पातयां प्रथममास' इत्यादि लिट्-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/७१&oldid=347310" इत्यस्माद् प्रतिप्राप्तम्