पृष्ठम्:Laghu paniniyam vol2.djvu/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पदस्वरः ।
पदद्वित्वे परमाग्रेडितम्, तच्च सर्वानुदत्तं स्यात् । तेन 'नित्य-
बीप्सयोः' इत्यादिना द्वित्वे दिनेदिने, पुनःपुनः, उपर्युपरि इत्यादौ
द्विरुक्तद्वितीयरूपं सर्वानुदात्तं भवति ।
‘पदस्य' । ‘पदात्' 'अनुदात्तं सर्वमपादादौ' इत्यधिकारे युष्मद्-
स्मदोर्वस्नसाद्यादेशा उक्ताः । शेषाः कथ्यन्ते ।-
....
(१९४०) आमन्त्रितस्य । ८ । १ । १९ ।
पदात् परस्यापादादौ स्थितस्य आमन्त्रितस्य पदस्य सर्वानुदात्तः
स्यात् । यथा—पचसि देवदत्त । पदात् परत्वाभावे आद्युदात्त उक्तः
(१९२६) । आमन्त्रितस्याविद्यमानवद्भावः (३६१), तन्निषेध (३६२)
श्च पूर्वोक्तावत्रानुसन्धेयौ । अत्र विषये
(१९४१) सुबामन्त्रिते पराङ्गवत्स्वरे । २ । १ ।२।
1
इति काचन परिभाषाप्यस्ति | कात्यायनपरिष्कृतस्य सूत्रस्यास्य, आमन्त्रि-
तेनान्वितं षष्ठ्यन्तं तदीयशरीरानुप्रविष्टमिव स्वरे कर्तव्ये ग्राह्यमित्यर्थः ।
तेन
यत्ते दिवो दुहितर्मर्त्त भोजनम् ।
इत्यादौ 'दिव' इति षष्ठ्या अपि सर्वानुदात्तत्वं भवति ।
(१९४२) तिङतिङः | ८ | १ | २८ ।
तिङन्तं पदमतिङन्तात् पदात् परमनुदात्तं स्यात् । यथा--
देवदत्त: पचति । यज्ञदत्तो भुङ्क्ते ।
अग्निमीळे पुरोहितम् ।
(१९४३) न लुट् | ८ | १ | २९ । यथा-
1750
श्वः कर्ता
लुट्प्रयोगश्छन्दसि न दृश्यते इत्युक्तं | युक्तिस्तु नोक्ता । सात्र प्रद-
इर्यते । तृजन्ताल्लडन्तस्यास्तेरनुप्रयोगेण निष्पादितान्येव लुडूपाणि । तथाहि-
भविता भवितारौ भवितारः – अत्र प्रथमपुरुषे अस्तिरूपाणां प्रयोग
विनैव गम्यमानत्वादप्रयोगः । यथा- 'कारस्करो वृक्षः' 'मातापितरौ

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/७०&oldid=347309" इत्यस्माद् प्रतिप्राप्तम्