पृष्ठम्:Laghu paniniyam vol2.djvu/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पदस्वरः ।
१ । १ । ) इति नैरुक्तानां वीरव्रतं तु पाणिनिर्न सहते । तिरोहितप्रकृ
तिप्रत्ययविभागानां शब्दानां निपातनेनानुशासनमेवाचार्यस्याभिमतं प्रति-
भाति । अचतुरविचतुरादिषु यद्यपि लाघवार्थं निपातनसरणिरनुसृता
तथापि परुत्परार्यैषमआदिषु तथा नेति स्पष्टम् । एवं च नामनिर्वचना-
र्थमपि यलः पाणिमिना कृतो भवेत् । किंन्तु अद्योपलभ्यमान उणादि-
सूत्रपाठः पाणिनिप्रोक्तस्य संक्षेपस्य प्रपञ्चः स्यात् । तथाहि आचार्यो-
दशविकरणीभिन्नान् घातूनू पठित्वा नाम्नां धातूकरणपद्धतिञ्चोपदिश्यान्ते
'बहुलमेतन्निदर्शनम्' इत्याह । तद्धितेषु च 'तस्यापत्यं' इत्यादीनर्थानाध-
कृत्य 'शेषे' इत्युपसंहरति । तथैव 'धः कर्मणि ष्ट्न्' (३ | २ | १८१ ।)
इत्यादि नामनिरुक्तिपद्धतिं प्रदर्श्य 'उणादयो बहुलम्' इति सूत्रयामास ।
'गर्गादिभ्यो यन्' इत्यादीनि गणान्तसणीव “कृपावाजिमिस्वदिसाध्यशू-
भ्य उण्" इत्यादीनि गणसूत्रनिर्विशेषाणि कतिचन सूत्राणि च
पपाठ । यथा पुनरर्वाचीनेषु कैश्चिद्धातूनामर्थनिर्देश आकृतिगणानां
पूरणञ्चारब्धं तथान्यैरुणादयोऽपि प्रपञ्चिताः । प्रपञ्चयितुश्चाद्य लुप्तप्रचार-
त्वादनिर्णयस्वरूपेण शाकटायनग्रन्थेन बहूपकृतं स्यात् । एवं मनुशिष्य-
प्रणीतायाः स्मृतेर्मनुस्मृतिव्यवहार इव उणादिसूत्रपाठस्य शाकटायन-
प्रोक्तत्वप्रथा समजनीति कल्पनीयम् । एवं च ओपर्ट् (DR. OPPERT)
महाशयेन मद्रास् (MADRAS) नगरे मुद्रापितस्य जैनव्याकरणग्रन्थस्य
यादृशः शाकटायनीयव्यपदेशस्तादृश एवोणादिसूत्राणामपीत्यलं शाखा-
चङ्क्रमणरभसेन ।
(६) पदस्वरः ।
प्रकृतिप्रत्ययनिरपेक्षमखण्डस्य पदस्याष्टमाध्यायप्रथमपादे स्वरो
विहितः । सोऽयं पदस्वरः ।
‘तस्य परमाम्रेडितं’ इत्यतः परम् ।-
(१९३६) अनुदात्तश्च । ८।१।३।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/६९&oldid=347308" इत्यस्माद् प्रतिप्राप्तम्