पृष्ठम्:Laghu paniniyam vol2.djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उणादीनामागमः ।
अथ नाम्नां लिङ्गानुशासनवत् स्वरानुशासनमपि पाणिनिः स्वयमेव
कुतो नारब्धवानिति जिज्ञासोदेति । नूनं 'उणादयो बहुलं' इति सूत्रयन्नाचार्यः
स्वरानुशासनमपि विहितं मन्यते । उत्सर्गतोऽन्तोदात्तानि प्रातिपदिकानि,
यत्र पुनर्देशभेद आवश्यकस्तत्र प्रत्ययानां रेफचकारादयोऽनुबन्धा योज्या इति
स्यादाचार्यस्य हृदयम् । उणादयः पुनः शाकटायनीया इति प्रवादस्य न
पश्यामः कमप्याघारम् । किमाचार्यः परकीयाणां सूत्राणामपपत्तिसंपाद-
नाय 'तितुत्रतथसरकसेषु च' इत्यादिसंविधानमारभेत? । किं वा पञ्चपाठीप्र-
णेता पाणिनिरुणादीनप्यसङ्कलय्य विश्राम्येत् ? । यथा नैरुक्तानां क्रियास-
माम्नाय आचार्येणानुबन्धासज्जनेन परिष्कृतस्तथा तेषां नामनिरुक्तिसम्प्र-
दायोऽपि नवीकृतो भवितुमेवार्हति । अनुबन्धकरणे च तत्तव्याकरणप्रस्था-
नप्रवर्तकानां परस्परनिरपेक्षत्वं 'आङ आपः' 'आङो नास्त्रियां' इत्यष्टाध्यायी-
दृष्टानां पूर्वाचार्यसङ्केतानां विमर्शनप्रस्तावे निरूपितं महाभाष्ये। किञ्च,
उणादीनां शाकटायनोपज्ञत्वे बहुत्र नामग्रहणेन तमाचार्य पूजयन् पाणिनि-
बहुलकोपदेशेन तदीयं ग्रन्थं न कदाप्युपाहसिष्यत् ।
नामव्युत्पत्तिविषये प्राचीनानां पक्षद्वयमवर्तत । यथाह यास्कः-
“नामान्याख्यातजानीति शाकटायनो नैरुक्तसमयश्च; न सर्वाणीति
गार्यो वैयाकरणानां चैके” इति । भाष्यकारश्च 'नाम च धातुजमाह
निरुक्ते व्याकरणे शकटस्य च तोकं" इति तदेतदनुवदति । 'उणादयो
व्युत्पन्नाः' 'उणादयोऽव्युत्पन्नाः' इति पाणिनीयव्याख्यातॄणां ग्रन्थेषु दृश्य-
मानो वादोऽप्यस्यैव पक्षद्वयस्य रूपान्तरम् । तत्र 'शेकटस्य च तोकं '
इति परिहासगर्भेण नामनिर्देशेनात्मनः शाकटायनमते स्ष्टमरुचिं प्रकाश-
यति पतञ्जलिः । बहुत्र चाह 'उणादयोऽव्युत्पन्ना इति वक्ष्यामि' इति । पाणि-
नेस्तु 'तितुत्र तथसरकसेषु च' इति इग्निषेधारम्भदर्शनाद् व्युत्पत्तिमतमेवा-
भिमतमित्यवगम्यते । किन्तु “अनन्वितेऽर्थे, अप्रादेशिके विकारे, अर्थ-
नित्यः परीक्षेत केनचिाद्वृत्तिसामान्येन; अविद्यमाने सामान्येऽप्यक्षरव-
FASTAR
र्णसामान्यान्निब्रूयात् ; न त्वेव न हि निब्रूयात् " (यास्कनिरुक्तम् – २ ।
8

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/६८&oldid=347307" इत्यस्माद् प्रतिप्राप्तम्