निपातस्वरः ।
(१९३७) थलि च सेटीडन्तो वा । ६ । १ । १९६ ।
सेट थलन्ते पदे आदिरन्त इड्डा उदात्तः । लित्स्वरेण प्रत्ययात्
पूर्वमुदात्तम् । यथा— लुलविथ – चत्वारोऽपि पर्यायेणोदात्ताः ।
(१९३८) चढ्यन्यतरस्याम् (उपोत्तमम्) | ६ । १ । १२८ ।
चङन्ते उपोत्तममुदात्तं वा । पक्षे अदुपदेशलसार्वधातुकस्यानुदात्त-
त्वाच्चङश्चित्स्वरः । यथा — मा हि चीकरतम्, तीकरतम् वा ।
५६
(५) निपातस्वरः ।
नाम्नामिव निपातोपसर्गयोरपि स्वराः फिट्सूत्रेषु विधीयन्ते । यथा-
निपाता आयुदात्ताः । ४ । १२ । उपसर्गाश्चाभिवर्जम् । ४ । १३ ।
एवादीनामन्तः । ४ । १४ । वाचादीनामुभावुदात्तौ । ४ । १५ ।
चादयोऽनुदात्ताः । ४ । १६ । इति । पादचतुष्टयविभक्तानि फिट्सू-
त्राणि शान्तनवाचार्यप्रणीतानीत्याहुः । तत्कृतानां ग्रन्थान्तराणामनुपलम्भात्
कोऽसावाचार्य इति न विद्मः । फिट्सूत्रेषु पाणिनीयपरिभाषादर्शनादयं
पाणिनेरर्वाचीन एव भवितुमर्हति । कण्ठतश्च तथोक्तमुद्योते नागोजिभ-
ट्टपादैः । किन्तु फिट्सूत्रकारः-अष् (अच्), हय् (हल्), फिष् (प्रातिपदिकं)
यमन्वा (वृद्धिः), नप् (नपुंसकं), शिट् (सर्वनाम), स्फिक् (लुप्) इत्य-
माणिनीयाभिः संज्ञाभिर्व्यवहरति । नपुंसकशब्दस्य 'नप्' इति सङ्कोचन -
मेव प्रस्थानस्यास्य नवीनतां विशयति । पाणिनिस्तावत् स्वकपोलकल्पि-
तेषु परं मात्रालाभव्यसनमाविष्करोति । तदनन्तरगामिनामेव तावद्दूरमल्पा-
क्षरीकरणसंरंभः प्रसरति यावता सर्वजनीनानां साधुशब्दानां वैरूप्यकरण-
मपि प्रसज्यते । यथा वोपदेवव्याकरणे हस्वदीर्घष्ठतानां पार्श्वतक्षणेन
'स्वर्धप्ड' इति सङ्कोचनम् । अतो मुग्धबोधव्याकरणसजातीयात् कुतश्चित्
प्रस्थानादुद्धृता एताः संज्ञा इति प्रतिभाति ।
पृष्ठम्:Laghu paniniyam vol2.djvu/६७
दिखावट
एतत् पृष्ठम् अपरिष्कृतम् अस्ति