पृष्ठम्:Laghu paniniyam vol2.djvu/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वरकाण्डः ।
इह संभाषणेषु लिखितयोर्गद्यपद्ययोरनुवाचनेषु च प्रायः सर्वाणि
पदानि एकरूपेण ध्वनिना नोच्चार्यन्ते । यथा—
-
‘उदेति सविता ताम्रस्ताम्र एवास्तमेति च'
इत्यत्र द्वितीयस्ताम्रशब्दः सविशेषेण यत्नेन शब्धते । उद्देशप्रतिनिर्दे-
शयोस्ताम्रत्वरूपस्य धर्मस्याभिन्नत्वद्योतनमस्य प्रयोजनम् ।
'भुक्ता बहवो दारा लब्धाः पुत्राश्च पौत्राश्च ।
नीतं शतमप्यायुः सत्यं वद मर्तुमस्ति मनः ॥'
अत्र शब्दतोऽनुक्तं प्रश्नं प्रत्याययितुं मनश्शब्द: केनापि विंकृतेन ध्वनि-
नोच्चार्यते ।
गुर्वर्थमर्थी श्रुतपारदृश्वा रघोः सकाशादनवाप्य कामम् ।
गतो वदान्यान्तरमित्ययं मे मा भूत् परीवादनवावतारः ॥ "
अत्र रेखाङ्किताः शब्दास्तत्तव्यङ्गचार्थबोधनाय उत्कटयलमुच्चारणीयाः ।
उक्तमिमं ध्वनिविकारं काकुशब्देन व्यपदिशन्त्यालङ्कारिकाः । प्रश्नभीति-
शोकेविस्मयादीनां भावानां द्योतको ध्वनिविकारः काकुः । इयं वाक्ये पदेषु
व्यवस्थिता, उत्कटयत्लेनोच्चारणं च प्रायोऽस्याः स्वरूपम् ।
अथ पदेष्वक्षराणामुच्चारणेऽपि ध्वनिभेदः कार्यः । योऽयं स्वर
इत्युच्यते । काक्कां विकारो यत्ने क्रियते; स्वरे तु श्रुतावित्यनयोर्भेदः ।.
एवं च वाक्येषु पदानामुच्चारणेऽनुष्ठेय उत्कटानुत्कटत्वभेदः काकुः; पदे-
प्वक्षराणामुच्चारणेऽनुष्ठेयः श्रुतिभेदः स्वर इति विवेकः । यथा काकुः
शोकभीत्यादीनां द्योतकस्तथा स्वरः कस्य द्योतक इति शृङ्गआहिकया
निर्देष्टुं न शक्यते । नाम्नां लिङ्गवत्, आख्यातानामुपग्रहवच्च अक्षराणां
कोऽपि जातिभेदः स्वर इति कल्पनीयम् । वृक्षसमुद्रादिषु पुंधर्मस्य लता-
सरिदादिषु स्त्रीधर्मस्य चारोपाद्यथा लिङ्गस्य, यथाच क्रियाफलस्य आत्मपर-
Palacion

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/५०&oldid=347289" इत्यस्माद् प्रतिप्राप्तम्