स्वरस्वरूपम् ।
गामित्वभेदाभ्यामुपग्रहस्य च क्वचिदुपपत्तिः सुलभा, तथा लोपसम्भावना-
हीन उदात्तः लोपसम्भावनावाननुदात्तः इत्यादयो युक्तयः स्वरस्या-
प्युद्भावनीया एव । ‘अस्ति स्तः सन्ति' इत्यादिष्वस्तेर्लडूपेषु हि अस्ति
अति अस्मि इत्येकवचनेषु धात्वकार उदात्तः, द्विवचनबहुवचनेषु तु
अनुदात्तः । उदात्ततायामकारो न लुप्यते, अनुदात्ततायां तु लुप्यते ।
लिङि स्यात् स्यातां स्युः...इति धात्वकारस्य सर्वत्रानुदात्तत्वात् सर्वत्र
लोपः । किञ्च लुप्यन्नप्युदात्तः स्वधर्म सुरक्षितं पुनः स्वस्थानमापन्नाया -
रायार्पयति । यथा— कुमारशब्दोऽन्तोदात्तोऽनुदात्ते ङीपि कृते 'यस्येति
च' इति लोपेन नष्टोऽपि स्वमुदात्तत्वं ईकारेऽर्पयति । कुमारीं इत्यन्तो-
दात्तः शब्दः । अपिच 'एकः पूर्वपरयो' रिति सन्धौ अन्यतरस्योदात्तत्वे
आदेश एवोदात्तो भवति । प्राण्यङ्गेषु मर्मणामिव पदेषूदात्तस्य किमप्यस्ति
-
४०
प्राधान्यम् ।
लौकिके संस्कृते स्वरश्चिरातप्रचारो जातः । वेदाः परमद्य स्वा-
घ्यायकाले स्वरोपस्कृतमुच्चार्यन्ते । स्वरविधायकसूत्रेऽपि लोकवेदभेदमुपदि-
शन्नाचार्यः स्वजीवितकाले लोकेऽपि स्वरप्रचारमावेदयति । 'प्राचां क्रीडायां'
(६–२–७४) इति प्राग्देशवासिनां क्रीडावाचकेपु 'उद्दालक पुष्पभञ्जिका'
'वीरणपुष्पचायिका,' 'तालभञ्जिका' इत्यादिषु शब्देषु स्वरविशेषमाह ।
‘क्षयो निवासे' (६–१–२०१) इत्यादिवन्नानार्थकानां शब्दानां स्वरेणार्थं
नियन्त्रयति । 'वर्णादनुदात्तात्तोपधात्तो नः' इतिवत् प्रक्रियाविधिषु स्वरै-
रपि निमित्तान्युपदिशति । उदाचेतः परस्मैभाषा:, अनुदात्तेत आत्मने-
भाषा:, स्वरितेत उभयतोभाषा इति स्वरैरुपग्रहो नियम्यते । धातूनेव
उदात्ताननुदात्तांश्च पठित्वा स्वरनिबन्धना कृतेव्यवस्था । उभयपदिनां
स्वरितेत्त्ववत् वेटां: स्वरितत्वे कल्पनीये कुतस्तान् उदित्त्वेनाङ्कितवान्
पाणिनिरिति परं चित्रीयामहे । किञ्च 'स्वरितेनाधिकारः' इति अधि-
कारचिह्नं स्वरितः स्वरः । एवं बहूनि प्रयोजनानि स्वरैः साधयन्, लौकिक
संस्कृत भाषाशब्देन व्यपदिशन्, बहुत्र लोके वेदाद्धिनं स्वरमुपदिशंधा-
चार्यः स्वरसंस्कार विनैव सूत्राणि प्रणिनायेति कथं कल्प्यतां ? तथा.
पृष्ठम्:Laghu paniniyam vol2.djvu/५१
दिखावट
एतत् पृष्ठम् अपरिष्कृतम् अस्ति