पृष्ठम्:Laghu paniniyam vol2.djvu/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आख्यातकप्रकरणम् ।
(१८५०) इकः सुनि । ६ । ३ । १३४ ।
सुन् निपातः । तस्मिन् परे पूर्वस्य इगन्तस्य दीर्घः । यथा—
अभी षु णः सखीनाम् अभि ।
(१८५१) व्यचोऽतस्तिङः | ६ | ३ | १३५ ।
द्यचस्तिङन्तस्यात ऋचि दीर्घः स्यात् । यथा—
विद्मा हि त्वा सत्पतिं शूर गोनाम् – विद्म ।
(१८५०) निपातस्य च | ६ | ३ | १३६ । यथा-
- एव,
एवा ते । अच्छा ते-
अच्छ।
(१८५३) तुजादीनां दीर्घोऽभ्यासस्य | ३ | १ । ७ । यथा-
- प्रभरा तूतुजान: – मित्रो दाधार पृथिमा मुतद्याम् ।
-
॥ ॐ ॥ एकाचो द्वे प्रथमस्येति द्वित्वं छन्दसि वा ॥ यथा-
यो जागार । दाति प्रियाणि ।
-
आख्यातकप्रकरणम् ।
'छन्दसि लिट् (१०००), 'लिट: कानज्वा (१००१), 'कसुश्च'
(१००२) इति सूत्रत्रयं पूर्वमेव व्याख्यातम् । खल्विधौ विशेष उच्यते--
(१८५४) छन्दसि गत्यर्थेभ्यः (युच्) | ३ | ३ । १२९ ।
ईषद्दुस्सुषूपपदेषु गत्यर्थेभ्यो युच् खलोऽपवादः । यथा -
सूपसदनोऽग्निः
-
(१८५५) अन्येभ्योऽपि दृश्यते । ३ | ३ | १३० । यथा -
सुदोहनामाकृणोत् ब्रह्मणे गाम् ।
(१८५६) तुमर्थे से-सेनसेऽसेन्-क्से-कसेन-
ध्यै- अध्येन् -कध्ये-कध्यैन्-
शध्यै-शध्यैन्-तवै-तवेङ्-तवेन:
६।३।४।९।
तुमुन्नर्थे धातोरेते प्रत्ययाः स्युः । अत्र सरूपा एवं प्रत्ययाः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/४१&oldid=347280" इत्यस्माद् प्रतिप्राप्तम्