तिङन्तप्रकरणम् ।
(१८४५) अभ्युत्सादयांप्रजनयांचिकायांरमयामकः
पावयांक्रियाद्विदामक्रनिति च्छन्दसि । ३ । १ । ४२ ।
आद्येषु चतुर्षु लुङ्याम्, कृञो लुङि सिपि च्ले: ‘मन्त्रे घस...'
इत्यादिना लुकि निष्पन्नस्याक इत्यस्यानुप्रयोगश्च । पावयांक्रियादित्याशी-
र्लिङि, विदामक्रन्निति पुनश्च लुङि ।
'न माङ्योगे-(अडाटौ)'-
(१८४६) बहुलं छन्दस्यमाङ्योगेऽपि । ६ ४ । ७५ ।
माङ्योगं विनापि अडाटौ न स्तः । माङयोगेऽपि कदाचित् स्तः ।
जनिष्ठा उग्रः सहसे तुराय: अमाङ्योगे अभावः ।
यथा-
मा वः क्षेत्रे परबीजान्यवाप्सुः – मायोगे भावः ।
(१८४७) इरयो रे । ६ । ४ । ७६ ।
‘इरे' इति लिट् प्रथमबहुवचनस्य 'रे' इत्यादेशो बहुलं स्यात् ।
यथा – गर्भ प्रथमं दध्र आपः–दधिरॆ इत्यर्थः ।
(बाहुलकात् ) परमाया धियो अग्निकर्माणि चक्रिरे ।
'रे' इत्यादेशस्याभीयत्वेनासिद्धत्वात् दधे इत्यत्र 'आतो लोप इटि च'
इत्याल्लोपः । ‘रे’ इत्यादेशविधानसामर्थ्यादेव पुनरिडागमो न ।
(१८४८) लिड्याशिष्यङ् । ३ । १ । ८६ ।
आशीर्लिंङि परे धातोरङ् प्रत्ययः स्यात् । य यथा-
मन्त्रं वोचेमाग्नये – ‘वच उम्’ । पितरं च दृशेयं मातरं च ।
अथ दीर्घविधिः-
11
२९
(5)
(१८४९) ऋचि तु-नु-घ-मक्षु-तङ्-कु-त्रोरुष्याणां । ६ । ३ । १३३ ।
ऋच्येषां दीर्घः स्यात् । यथा -
1-
आ तू न इन्द्र वृत्रहन् तु । नू मूर्तः– नु ।
उत वा घा स्यालात्–घ (इति निपातः) । मक्षू गोमन्तमीमहे – मक्षु ।
भरता जातवेदसम्– भरत । (लोट् म. ब.) कूमनः – कु GDF
-
अत्रा ते भद्रा – अत्र । उरुष्या णोऽग्नेः - उरुष्य |
-
।
।
पृष्ठम्:Laghu paniniyam vol2.djvu/४०
दिखावट
एतत् पृष्ठम् अपरिष्कृतम् अस्ति