पृष्ठम्:Laghu paniniyam vol2.djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिङन्तप्रकरणम् |
लोट उत्तमे पुरुषे । किञ्च 'माङि लुङ' 'स्मोत्तरे लङ् च' इति विहितौ लुङ्लङौ
वस्तुतो लेडूपाण्येव भवितुमर्हन्ति । ‘मा वादीः' ‘मा स्म शोचः इत्या-
दिषु माङ्युक्तेषु वाक्येषु लोट एव ह्यर्थस्य स्वारस्यम् । दृश्यते च
'मास्तु' ' मा कुरु' 'मा वद' इत्यादिषु लोडेव प्रयुक्तः । माङ्योगे अडा-
गमप्रतिषेधात्, तिसिप्झीनामिलोपस्य उत्तमसलोपस्य च साधारण्यात्,
विकरणप्रत्यययोः सिन्सिपोः सारूप्यात्, सिच ईडामगस्य 'बहुलं छन्दसि'
इत्युक्तेः सिप्यपि प्रवृत्तेः सिच्यप्रवृत्तेर्वा सम्भवाच परस्मैपदे लुङ्लेटो
रूपसाम्यमपि तान्तन्तादेशाविषयेषु सम्भवति । सिचि वृद्धिरेकैव प्रक्रिया
दुर्घटा । सापि महाबाहुलकबलादेकत्र त्याज्या अन्यत्रापि ग्राह्या वा ।
लाङ त रूपसाम्यमितोऽपि सुलभतरम् ।
तु
चलेरादेशविधिप्रस्ताबे-
(१८४२) मन्त्रे घसहरणशहदहाद्वच्कृगमिजनिभ्यो ले:
। २ । ४ । ८० ।
"
घस, हर, णश, वृ, दह, आदन्तधातुः, वृचू, कृ गम, जन
एभ्यः चलेर्लुक् । यथा-
घस – अक्षन्नमीमदन्त पितरः । दह- मा न आधक् ।
आप्रा द्यावापृथिवी अन्तरिक्षम् ।
कृ – अक्रन् कर्म कर्मकृत: । गम – अग्मन् ।
आदन्तः
प्रा. -
एवमन्येऽप्युदाहार्याः ।
(१८४३) कृमृहरुहिभ्यश्छन्दास (चलेरङ्वा) | ३ । १ । १९ ।
इदं तेभ्योऽकरं नमः । अमरत्, अदरत् । आरुहत् ।
लोटो हेः शानजुक्त:-
(१८४४) छन्दसि शायजपि । ३ । १ । ८४ ।
हलः परस्य श्नाप्रत्ययस्य छन्दसि शायजपि स्यात् । यथा-
गृभाय जिह्वया मधु । - गृहाणेत्यर्थः । हस्य भत्वं वक्ष्यते ।
अमन्त्रे इति निषेधात् छन्दसि लिट्याम्न । केषाञ्चिल्लिटोऽन्यत्रा-
प्याम् निपात्यते---
-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/३९&oldid=347278" इत्यस्माद् प्रतिप्राप्तम्