सुबन्तप्रकरणम् ।
१९
(१८१७) मन्त्रेष्वाङ्यादेरात्मनः (लोपः) । ६ । ४ । १४१ ।
टाविभक्तौ आत्मनूशब्दस्य आदिलोपः । यथा-
त्मना देवेभ्यः । त्मना सोमेषु । आत्मना ।
॥ * ॥ आङोऽन्यत्रापि लोपः ॥ त्मन्यासमञ्जत मह्यम् ।
‘अतो सिस ऐस' (२०४)
(१८१८) बहुलं छन्दसि । ७ । १ । १० । यथा-
अभिर्देवेभिः । बाहुलकादनतोऽपि नयैरिति ।
(१८१९) सुपां सुलुक्पूर्वसवर्णाछेयाडाड्यायाजालः । ७ । १ । ३९ ।
सुपामेते आदेशाः प्रयोगानुसारेण द्रष्टव्याः । प्रयोगबाहुल्यानुसा
रेणोदह्रियन्ते-
सु – अनृक्षरा ऋजवस्सन्तु पन्थाः- पन्थान इति जसः सुः ।.
लुक्–परमे व्योमन्–व्योम्नीति डेर्लुक् ।
पूर्वसवर्णः-धीती मती सुष्टुती । धीत्या इत्यादेष्टाप्रत्ययस्य पूर्वसवर्ण: ।
-न ताद् ब्राह्मणान्निन्दामि – तात् इति शस आत् ।
शे-न युष्मे वाजबन्धवः । अस्मे इन्द्रा बृहस्पती युष्मास्वस्मभ्यामति सुभ्यसोः शे।
आत्-
या - उरुया, धृष्णुया - उरुणा धृष्णुना - इति टाप्रत्ययस्य या ।
-
डा-
- नाभा पृथिव्यां - नाभाविति डे
-
ड्या - अनुष्ट्या च्यावयतात् - अनुष्टुभेति टाप्रत्ययस्य ड्या ।
-
याच् – साधुया—साध्विति सोर्याच् ।
-
आल् — वसन्ता यजेत – वसन्ते इति डेराल् ।
॥ * ॥ इयाडियाजीकाराणामुपसंख्यानम् ॥
यथा - इया – उर्विया परिधानं - उरुणेति टाप्रत्ययस्य
डियाच्—सुक्षेत्रिया, सुगात्रिया –,,
ई - दृतिं न शुष्कं सरसी शयानं - सरसीति डे: ।
॥ ॐ ॥ सुपां सुपस्तिङां तिङ इति वक्तव्यम् ॥
सुपां तिङयं च व्यत्ययो द्रष्टव्य इत्यर्थः । यथा-
धुरि दक्षिणायाः
1
- दक्षिणायामिति सप्तम्याः षष्ठी ।
चषालं ये अश्वयूपाय तक्षति - तक्षन्तीति वचनस्य व्यत्ययः ।
अत्र शेइत्यादेशः सप्तम्या लुकि ईददन्तौ च प्रगृह्यौ तथा हि-
(१८२०) शे । १ । १ । १३ ।
पृष्ठम्:Laghu paniniyam vol2.djvu/३०
दिखावट
एतत् पृष्ठम् अपरिष्कृतम् अस्ति