पृष्ठम्:Laghu paniniyam vol2.djvu/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुबन्तप्रकरणम्ः ।
युष्मदादेशाः, तद् ततक्षुस् एतेषु तकारादिषु परेषु इण्को: परस्य सस्य षः, स
चेत्सकार ऋक्षादमध्ये भवति । यथा—
अग्निष्टं नामासीत् । अग्निष्टे पतिः ।
अग्निष्टद्विश्वमावृणाति । द्यावापृथिवी निष्टतक्षुः ।
(१८१५) यजुष्येकेषाम् | ८ | ३ | १०४
पूर्वोक्तं यजुष्यपि केचिदिच्छन्ति । यथा-
अर्चिर्भिष्वम्, अर्चिभिंस्त्वम् ।
(१८१३) पूर्वपदात् । ९ । ३ । १०६ ।
छन्दसि पूर्वपदस्थान्निमित्तात् परस्य सस्य वो षः । यथा—
द्विषन्धिः। त्रिषन्धिः । मधुष्टानम् । आपोहिष्ठा ।
युवं हि स्तः स्वर्पती ।
णत्वविधौ-
१८
(१८१४) छन्दस्यदवग्रहात् । ८ । ४ । २६ ।
अवग्रहो नाम समस्तपदानां पृथकृत्य पाठः । तद्विषये पूर्वपदस्थात्
ऋतः परस्य नस्य णः । यथा— नृमणाः । पितृयाणम् ।
सुबन्तप्रकरणम् |
'एङ्ह्वात् संबुद्धेः (२२४) इति लोपप्रस्तावे--
(१८१५) शेश्छन्दास बहुलम् । ६ । १ । ७०
जश्शसोरादेशस्य शेर्बहुलं लोपः । यथा-
या क्षेत्रा । या वना । – यानि क्षेत्राणि, यानि वनानि ।
-
शौ लुप्ते प्रत्ययलक्षणेन त्यदाद्यत्वं, पररूपं, 'नपुंसकस्य झलचः' इति नुम्,
'सर्वनामस्थाने चासंबुद्धा'विति दीर्घः, 'नलोपः प्रातिपदिकान्तस्य' इति न-
लोपः-या इति रूपं सिध्यति ।
'एतत्तदोः सुलोपः...' (३२७) -
(१८१६) स्यश्छन्दसि बहुलम् । ६ । १ । ११३ ।
‘स्यः' इति त्यच्छब्दप्रथमैकवचनस्य सुलोषो बहुलं हाले । यथा
एष स्य वाजी क्षिपणिं तुरण्यति । यत्र स्यो निपपेत् ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/२९&oldid=347267" इत्यस्माद् प्रतिप्राप्तम्