पृष्ठम्:Laghu paniniyam vol2.djvu/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यञ्जनविकाराः ।


॥ * ॥ प्रश्नान्ताभिपूजितविचार्यमाणप्रत्यभिवादयाज्यान्तेष्विति
परिगणनं कर्तव्यम् ॥
प्रयभित्रादे – आयुष्मानेधि अग्निभूत ३इ (अग्निभूते)
--
‘है' 'हे' इत्यनयोरुक्तस्य प्लुतस्य प्रयोगे नायं विधिः । अदूरा-
द्धत' इति निषेधात्, परिगणनाच्च ।
(१७९१) तयोर्खावचि संहितायाम् | ८ | २ | १०८ ।
तयोरिदुतोर्यकारवकारादेशौ स्यातामचि परे संहितायां विषये ।
तयोरित्यनेन एदोतौर्विश्लेषणादुत्पन्नाविदुतौ गृह्यते । यथा-
-
-
अग्ने + आशा | = अग्न३याशा | पटो + आशा = पट ३वाशा ।
एवमेचां सन्ध्यक्षरत्वं कण्ठत उक्तमाचार्येण; तत्र एङि अकारांशस्य
प्रधान्यं; ऐचि तु इदुदंशस्य । प्लतिश्च प्रधानांशस्यैव; अत एचा प्लतस्य च
तस्रो मात्राः सस्भवन्ति । स्वरद्वपघटितत्वादेव तेषां न ह्रस्वः ; प्लुतोऽपि
सामान्यरीत्या असम्भवत्नंशमादाय क्रियते; दीर्घ एव तेषां स्वभावः । प्राकृ
ह्रस्वोऽपि दृश्यते । अतो ज्ञायते सन्ध्यक्षराणां एकतया प्रतीतिः
क्रमोपचितेति ।
अथासिद्धकाण्डगता व्यञ्जनविकाराः--
(१७९२) छन्दसीरः । ८ । २ । १५ ।
'मादुपधयाश्च मतोर्वोऽयवादिभ्यः' (१४७४) इति प्रकरणस्थ-
मिदं सूत्रम् । छन्दसि इवर्णान्ताद्रेफान्ताच्च मतोवत्वं भवति । यथा—
हरिवो मेदिनं त्वा । दधीवांश्चरुः । गीर्वान् । धूर्वान् । आशीर्वान् ।
(१७९३) अनो नुट् । ८ । २ । १६ ।
अन्नन्तात् परस्य मतोनुडागमः । तेन अन्नन्तानां मतुपि नलोपा-
भावः फलति । यथा-
6
अक्षण्वन्तः कर्णवन्तः सखायः । –अक्षिमन्तः ।
अण? अस्थिदधिसक्नामनङ् अतृतीयादिष्वपि 'छन्दस्यपि दृश्यते' इत्यनेन।
अस्थन्वन्तं यदनस्था बिभर्ति --अस्थिमन्तम् ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/२६&oldid=347264" इत्यस्माद् प्रतिप्राप्तम्