पृष्ठम्:Laghu paniniyam vol2.djvu/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैदिककाण्ड: ।
(१७९४) नादू घस्य । ८ । २ । १७ ।
नकारान्तात्तरप्तमपोर्नुडागमः । यथा - सुपथिन्तरः दस्युहन्तमः ।
'ससजुषो रुः ' इति प्रकरणे -
(१७९५) अम्नरूधरवरित्युभ्यथा छन्दसि । ८ । २ । ७० ।
अम्नस्, ऊधस् अवस् इत्येषां छन्दसि रुर्वा रेफो वा भवेत् । यथा-
अम्नरेव, अम्न एव । ऊधरेव, ऊध एवं । इत्यादि ।
(१७९६) भुवश्च महाव्याहृतेः । ४ । २ । ७१ । यथा-
भुवरित्यन्तरिक्षं, भुव इत्यन्तारक्षम् ।
'नश्छव्यप्रशान् (७८)' इत्यतः परं
(१७९७) उभयथक्षु । ८।३।८।
नान्तस्य पदस्य अम्परे छवि रुत्वं ऋाचे विकल्पेनैव । यथा-
तस्मिंस्त्वा दधाति । तस्मिन् त्वा दधाति ।
(१७९८) दीर्घादटि समानपादे । ८।३।९।
दीर्घात् परस्य पदान्तस्य नस्य अटि परे रुत्वम् । निमित्तनिमि
त्तिनौ चेदेकस्मिन्नेव ऋक्पादे भवतः ।
यथा-महाँ इन्द्रौ य ओजसा--महानिन्द्रः ।
'अत्रानुनासिकः पूर्वस्य तु वा (७५) ' इत्यादिप्रक्रियात्रानुसन्धेया ।
रॉर्यत्वे कृते लोपः ।
परिधीं रति = परिधीनति ।
अत्र रोरकारपूर्वत्वाभावान्न यत्वम् । अतश्च 'रति' इति रस्य श्रवणम् ।
एवं ‘सूनूँ- र्युवन्यूँ- रुत्' इत्यादावपि इकारोकारपूर्वो रुः श्रूयत एव ।
(१७९९) नन् पे । ८ । ३ । १० ।

'नॄन्' इत्यस्य पकारे परे रु: स्यात् । नकारस्य रुत्वे विसर्गोपध्मानीयौ ।
तस्मात् पूर्वस्यानुनासिकानुस्वारौ एवं चत्वारि रूपाणि । नंः पाहि, नँः पहि इत्यादि ।
(१८००) स्वतवान् पायौ | ८ | ३ | ११ |

पूर्ववद्रौ रूपचतुष्टयम्। यथा— भुवस्तस्य स्वतवाँ: पायुरने
| ८ | ३ |
२६ ।
(१८०१) हे मपरे वा (मः)
(१८०२) नपरे नः । ८ । ३ । २७ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/२७&oldid=347265" इत्यस्माद् प्रतिप्राप्तम्