पृष्ठम्:Laghu paniniyam vol2.djvu/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैदिककाण्डः ।
(१७८४) गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम् | ८ | २ | ८६ ।
प्राचां मते प्रत्यभिवादादौ अनन्त्यम्याप्यकारवर्जितस्य गुरोरचः
पर्यायेण लुतः । यथा-
दे ३ वदत्त; देवद ३ त्त; देवदत्त ३ |
इह प्राचां इति योगं विभज्य सर्वमिदं प्राचां मत एवेत्यर्थं कृत्वा
कृत्स्त्रं प्लुतविधिं विकल्पयन्ति व्याख्यातारः । अनेनार्वाचीन संस्कृते तो
लुप्त इति ज्ञायते

(१७८५) ओमभ्यादाने । ४ । २ । ८७ ।
मन्त्रस्यादौ प्रयुक्तः प्रणवः प्लवते । यथा-- ओ३म् अग्निमीळे पुरोहितम् ।
(१७८६) ये यज्ञकर्मणि । ८ । २ ८८ ।

ये ३ यजामहे
(१७८७) प्रणवष्टेः । ८ । २ । ८९ ।
यज्ञकर्माणि ऋचां पादानां टेः प्रणव आदेशः । यथा—
अपां रेतांसि जिन्वतो३म् । (स्वाध्याये तु) अपां रेतांसिं जिन्वति । इत्येव ।
(१७८८) याज्यान्तः । ८ । २ । ९०
याज्यमन्त्राणामन्तः प्लवेत । यथा - स्तोमैर्विधेमाग्नये ३ ।
इतः परं पञ्चदश सूत्राणि प्लुतविधाय कान्यवंप्रयाणीति ग्रन्थविस्त-
रभयादुपेक्ष्यन्ते ।
(१७८९) प्लुतावैच इदुतौ । ८ । २ । १०६ ।
ऐदौतोः प्लुतप्रसक्तौ तदवयवयोरिदुतोरेव प्लतः कार्यः । ऐ=आ+इ;
औ= आ +उ ! यथा – ऐतिकायन इत्यस्य प्लुतो
अ इ ३ तिकायन । औपगव
अ उ३ पगव ।
(१७९०) एचोऽप्रगृह्यस्यादूराद्धते पूर्वस्यार्द्धस्यादुत्तरस्येदुतौ
१८।२ । १०७ ।
""
अप्रगृह्यस्य एचः अदुरातविषये ते अवयव विभागं कृत्वा
पूर्वार्द्धभूतस्य अकारस्य द्रुतं कुर्यात् । उत्तरार्द्धे तु इदुदात्मना अवति-
ष्ठेताम् । ऐचो विशेषविधानात् एङ एवायं फलति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/२५&oldid=347263" इत्यस्माद् प्रतिप्राप्तम्