पृष्ठम्:Laghu paniniyam vol2.djvu/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लोकवेदभेदः ।
धातोरव्यवधानेन प्रयोगे निर्बन्ध आसीदिति अनुप्रयोगविधिप्रकरणे दर्शि-
तम् । लुङ्–लङ्-ऌङ्क्षु अडागमविधिरैच्छिक एवावर्तत । भूतकालल-
काराणां लुङ्-लङ्-लिटां वर्तमानेऽपि प्रयोगात् कालनियमो व्याकुलभूतः ।
-
४. उपसर्गाः – धातोः प्रागेव प्रयोक्तव्या इत्युपसर्गाणां स्थान-
नियमो नासीत् । मध्ये बहुभिः पदैरन्तरितास्ते कृच्छ्रादुद्दिष्टेन धातुना
योजनीयाः । कदाचित् प्रादिसमासेण्विव उपसर्गदर्शनाद्योग्यक्रियाध्याहार,
आवश्यको भवति ।
५. निपाताः –निपातानां तु पुरस्तादुपचाराः (नामभ्यः प्राक्
प्रयोक्तव्याः) उपरिष्टाइपचाराः (परत्वेन प्रयोक्तव्याः) इति स्थान-
नियम आसीत् । तथाहि नजित्ययं निपातो नाम्नः पूर्वं प्रयुक्त एवं
निषेधं द्योतयति, परं प्रयुक्तस्तूपमार्थम् । यथा—
‘नेन्द्रं देवमभंसत ” –ऋक्– ८ । ३ । २९ । १
इन्द्रं देवं नामन्यन्तेति निषेधार्थे नञ् ।
(C
'हृत्सु पीतासो युध्यन्ते दुर्मदासो न सुरायाम् ।
ऊधर्न नग्ना जरन्ते ".
-
ऋक् । ५ । ७ । १९ । १
इन्द्रस्तुतिरूपायामस्यां ऋचि 'सोमा 'इति पदं प्रकरणवशाध्या-
हार्यम् । 'पीतास: ' पीताः सोमाः हृत्सु (स्थिताः) सुरायां (पीतायां)
'दुर्मदासो न' दुर्मदाः पुरुषा इव युध्यन्ते । सोमरसेन पीतेन इन्द्रस्य
कुक्षिः पूर्ण इति भावः । तादृशामिन्द्रं 'नग्नाः ' स्तोतर: 'ऊधर्न' पयसा
पूर्ण धेनोरूध इव 'जरन्ते' स्तुवन्ति ।
६. उल्लेखाः– उल्लेखानां बालिशत्वमुपर्युद्धृतायामृच्येव स्प-
ष्टम् । उदाहरणान्तराण्यपि दर्शयामः
--
“ यच्चिद्धि त्वं गृहे गृह उलूखलक युज्यसे ।
इह युमत्तमं वद जयतामिव दुन्दुाभ: "-
1
ऋक् १ । २ । २५।५।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/१४&oldid=347251" इत्यस्माद् प्रतिप्राप्तम्