पृष्ठम्:Laghu paniniyam vol2.djvu/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लोकवेदभेदः ।
हे उलूखल त्वं हि ‘यच्चित्' यद्यपि गृहे गृहे युज्यसे (धान्याव-
घातार्थमुपयुज्यसे) (तथापि) त्वं इह (अस्मत्गृहे) जयतां दुन्दुभिरिव
(जयभेरीव) द्युमत्तमं वद (गंभीरं शब्दायस्व) इत्युलूखले प्रति प्रार्थना ।
मम धान्यपुष्टिर्भूयादिति भावः ।
WE
वक्ष्यन्ती वेदा गनीगन्ति कर्णं
प्रियं सखायं परिषस्वजाना ।
योषैवं शिङ्क्ते वितताधिधन्वं
ज्या इयं समने पारयन्ती' ऋ ५ । १ । १९ । ३ ।
66
""
57724
इयं धनुर्ज्यायाः प्रशस्तिः । इयं ज्या योषेव (कामुकी नारीव)
प्रियं सखायं (अर्थात् स्वसखमिषु) परिषस्वजाना (आलिङ्गन्ती विकरण-
व्यत्ययाच्लुकि द्वित्वं) इत् (निरर्थको निपातः) वक्ष्यन्तीव (रहस्याख्यायि
(नीव) कर्ण आगनीगन्ति (कर्णसमीपमागच्छत्याकृष्यमाणा) । (किञ्च)
अधिधन्वं (धनुषि) वितता (विस्तृता) शिङ्क्ते (कूजति मणितमिव करोति)
समने पारयन्ती (युद्धे जयदानक्षमा इति ज्याया विशेषणम् ) |
‘वसिष्ठो वर्षकामः पर्जन्यं तुष्टाव; तं मण्डूका अन्वमोदन्त; स
मण्डूकाननुमोदमानान् दृष्ट्वा' तानू प्रोत्साहयति -
" उपप्रवद मण्डूकि वर्षमावद तादुरि
मध्ये हृदस्य प्लवस्व विगृह्य चतुरः पदः
११
हे तादुरि (तरणशीले) मण्डूकि, उप (उपगम्य, उपसर्गदर्शना-
द्योग्यक्रियाध्याहारः) प्रवद (वर्षपतनाथमद्धष्यस्वः) वर्ष आवंद (आवेदय)
(अनन्तरं वृष्टे देवे) चतुरः पदो विगृह्य (पादचतुष्टयं प्रसार्य) हृदस्य मध्ये
प्लवस्व । (यथेच्छं विहरस्व) । बालस्येवाक्कृतिमरमणीया इमे बाग्विलासा
हृदयमावर्जयन्ति ।
Sup
एवम विमुक्तशैशवा वैदिकी संस्कृतभाषा व्याकरणयन्त्रणां न सहते ।
अतः किल लोकवेदयोरनुग्राहकं व्याकरणं प्रणेतुमुद्यतः पाणिनिश्छन्दसि
(वेदे) भूयासां विधीनां बाहुलकमाह । तथाच 'बहुलं छन्दसि '

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/१५&oldid=347253" इत्यस्माद् प्रतिप्राप्तम्