पृष्ठम्:Laghu paniniyam vol2.djvu/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लोकवेदभेदः ।
१. शब्दसमुच्चयः वेदे तावल्लोक इव नास्त्येव शब्दसमृद्धिः ।
वैदिका: शब्दा नैघण्टवं, नैगमं, दैवतमिति त्रिभिः काण्डैर्यास्केन निरुक्ते
समाम्नाताः; लौकिकाश्चामरसिंहैन त्रिकाण्डात्मके नामलिङ्गानुशासने पाठ-
ताः । दृश्यते ह्यनयोरजगजयोरिव महदन्तरम् । किञ्च वेदे प्रचुरप्रचारा
बहवः शब्दा लोके लुप्ताः; अन्येषां त्वर्थ दो जातः । यथा–ग्मा=भूमिः;
निधा=पाशः; चर्षणिः=जनः । अद्य रेणुपर्यायो रजश्शब्दो वेदे लोकप-
र्यायो दृश्यते । त्यद्, त्वद्, व इति त्रीणि सर्वनामानि वेदमात्रह-
१ ष्टानि | असुरसशब्देन देवा उच्यन्ते ।
२. नामानि नामपदानां लिङ्गनियमे महच्छेथिल्यमवर्तत ।
चतुर्थ्यर्थे षष्ठी, षष्ठ्यर्थे चतुर्थीत्यादिभिर्विनिमयैः, सर्वासां स्थाने प्रथमै-
कवचनप्रयोगैः, प्रत्ययलोपैरन्यैश्चोच्चावचैः सम्प्रदायैर्दुष्कर आतीद्विभ-
क्तीनां निर्णयः । किञ्च नामरूपावलिरेव विलक्षणा वेदेषु । यथा-
वृक्षा वृक्षान्,
वृक्ष: वृक्षा वृक्षास: ;
वृक्षेण
वृक्षं
(वृक्षा) वृक्षाभ्यां वृक्षेभिः
इत्यादि ।
--
दीर्घः ।
३. आख्यातानि – लकारेषु लेड्डेद एव दृष्टः, । लुड्डेदे न दृ-
श्यते । लेट् तावढिल्लकारोऽपि ङिल्लकाराणां रूपाण्यपि लभते । 'तप्तन-
-
सनथनाश्च' इति लोटि परस्मैपदमध्यमबहुवचनप्रत्ययोऽतीव
धातूनां नास्त्येव विकरणव्यवस्था । सप्तसु विकरणप्रत्ययेषु एको द्वौ
त्रयो वा यथायोगं धातुष्वासज्यन्ते । विकरणान्तरेष्वपि लुक्च्छ्लूविशृ-
लमुपयुज्येते । सर्वेऽपि धातव उभयपदिन एव । गमयाञ्चकारेत्यादिषु
दृष्ट आम्प्रत्ययो वैदिकदशायाश्चरमादनेषु लब्धजन्मापि विरलप्रचार एवा-
सीत् । तदानीं च तस्य लिटीव लकारान्तरेष्वपि प्रयोगोऽन्वमन्यत ।
यथा 'चिकयामकः' 'पावयांक्रियात्' इत्यादि । 'विदांकुर्वन्तु' इत्येको
लोट्याम्प्रयोगोऽद्यापि दृश्यते । प्रथमं कृञेवानुप्रायुज्यत, अनन्तरमेव
अस्तिभवती अप्युपात्ते । अत एव 'कृञ्चानुप्रयुज्यते लिटि'इति कृञ्धा-
तुमेकं निर्दिशत्याचार्यः । अश्वघोषकाळिदासादीनां कालादर्बागेवानुप्रयोग-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/१३&oldid=347250" इत्यस्माद् प्रतिप्राप्तम्