॥ श्रीः ॥
लघुपाणिनीयम् ।
उत्तरखण्डः ।
वैदिककाण्डः
इह किल काव्यनाटकालङ्कारादिषु व्युत्पन्नोऽपि प्रायो मुह्यति
संस्कृताभिज्ञमानी मन्त्रब्राह्मणयोरर्थं व्याख्यातुं प्रवृत्तः । कोऽत्र हेतुः ?
यद्यभयेऽपि ग्रन्था गैर्वाणीति प्रथितयैकयैव भाषयोपनिषद्धास्त र्होकत्र
निष्णातस्यान्ये दुर्बोधा न भवितुमर्हन्ति; यदि पुनरुभयोर्भाषाभेद एवा-
भ्युपगम्यते तर्हि भूयस्स्वंशेषूभयोरुपलभ्यमानं साधारण्यं न संगच्छेत ।
अतोऽनुमीयते वस्तुत एकैव भाषा कालादुपचयापचयाभ्यां विकृता भिन्नेव
प्रतिभातीति । तत्र प्राचीना दशा वैदिकग्रन्थेषु, इतरा लौकिकग्रन्थेषु
चोपलभ्यते । वेदशब्दो मन्त्रब्राह्मणयोर्निरूढः; अतश्चत्वारो वेदास्तेषां
ब्राह्मणानि च वैदिकभाषयोपनिबद्धाः; इतरत् सर्वं ग्रन्थजातं लौकिकभा-
घामयम् । एवञ्च, यथा स्थविरो देवदत्तो बालाद्देवदत्ताद् भिद्यते, तथा लौ-
किकी वाग्वैदिकीतोऽपि ।
वैदिकी भाषैव व्याकरणव्यवस्थाभिः संस्करणेन संस्कृतव्यपदेशम-
वापेत्याहुः । अधुना पुनर्वैदिक संस्कृतमित्यपि यद्व्यवहरामस्तदेरण्डतैला-
दिवत् प्रकृत्यर्थत्यागेन लक्षणया स्यात् । तिलान्निष्पन्नः स्नेहरसो हि
तैलम् ; कथं पुनरेरण्डेभ्यस्तिलरसो निष्पयते ! वैदिकभाषाया बाल्यतुल्या
दशा तावत् सर्वाङ्गीणा दृश्यते । तथाहि-