तप्ततमः इत्यर्थे तपिष्ठः
यज्वतमः
यजिष्ठः
अधम -
तमपू.
अपर - 'अप' इतिनिपातात् तरप् .
अपम-
अवर अव
--
। शब्दव्युत्पत्तिः ।
इत्यादयो विचित्राः प्रयोगाः सुलभाः ।
अतिशायनतद्धिता एव संख्यासु पूरणप्रत्ययात्मना दृश्यन्ते । पुर
स्कारद्योतकात् 'प्र' इति निपातात् तमप्रत्ययेन प्रथमशब्दो निष्पद्यते ।
तकारस्य महाप्राणीकरणं प्रक्रियाकार्यम् । तुडागमोपस्कृतेनान्तलोपिना च
ईयसुना द्वितीयतृतीयौ सिद्ध्यतः । चतुर्थषष्ठयोः थकारमात्रावशेष इष्ठन्
स्फुटं प्रत्यभिज्ञायते । पश्चमादिदशमान्तेषु तमप्रत्यय एवाद्यक्षरविकलः ।
दशान्तानामकारमात्रं प्रत्ययः । विंशत्यादिषु तमप्रत्ययः स्फुट एव । डट्-
प्रत्ययं कृत्वा तमडाद्यागमैः कार्य निर्वहन्नाचार्योऽत्राभ्यूहिकमेव मार्गमनुरुन्धे ।
एवं बहुतिथादिशब्दसिद्धये तिथुगागमकल्पनमतीव कृत्रिमम् | बहवस्ति-
थयो यस्मिन् स बहुतिथ इति समासाङ्गीकारो हि ऋजुर्मार्गः । पङ्कजाक्षः,
पद्मनाभ इत्यादौ अक्षिनाभ्यादीनामिव अकारः समासान्त एव विधेयः ।
पञ्चमसप्तमादौ दृष्ट आद्यक्षरविकलस्तमप्रत्ययस्तरप्रत्ययश्च तादृशः केषा-
श्चित् सर्वनामादीनां शब्दानां व्युत्पादक इव प्रतिभाति । यथा
अधर - अधश्शब्दात् तरपू. उपर- 'उप' 22
WA
35
33
अवम-
"
उत्तर- 'उत्' ११
उत्तम-
"
तमपू.
" तरप्.
तमपू.
आगच्छत्तम इत्यर्थे आगमिष्ठः
तरीयान्
तरत्तरः
,, तरपू.
99
22
7"
उपम-
39
अन्तर- अन्यशब्दात् (?)
अन्तम-
परम- परशब्दात्
मध्यम- मध्यशब्दात्
आदिम - आदि
चरम - चर
39
तरपू,
तमपू.
तरप्
तमप्.
39
तरप् :
तमप्.
is
" तमप्.
दार्ढ्यशैथिल्यभेदेन नामसु धातुषु च यत्राङ्गस्य द्वैविध्यं तत्र
प्रकृतिः कतरेति सन्देहो जायते । पश्यन्त्, अनडाह्, युवन् इति
सर्वनामस्थाने दृढमङ्गं; पश्यत्, अनडुह् यून् इति शिथिलं भसंज्ञायाम् ।
एवमेव अस्ति, वेत्ति, स्तौति इति दृढमङ्गं प्रवृत्तिस्थानेषु (पित्सु) ; स्,
विद्, स्तु इति शिथिलं निवृत्तिस्थानेषु (ङित्सु) । उभयेष्वपि बाहुल्येन
दृष्टं रूपमौत्सर्गिकमिति न्यायं पश्यन् पाणिनिः शिथिलमेवाङ्गं प्रकृति-
त्वेन गृह्णाति । किन्तु सर्वनामस्थानं, निवृत्तिस्थानमिति प्राचीनकृताना-
पृष्ठम्:Laghu paniniyam vol2.djvu/१२६
दिखावट
एतत् पृष्ठम् अपरिष्कृतम् अस्ति