सामग्री पर जाएँ

पृष्ठम्:Laghu paniniyam vol2.djvu/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११६
शब्दव्युत्पत्तिः ।
मन्वर्थानां संज्ञानां स्वारस्यपर्यालोचने दृढमेवाङ्गं प्रकृतिव्यपदेशमर्हतीति
वक्तव्यं वर्तते । सन्देहेऽस्मिन् स्वसृभाषासुद्दिष्टानां कीदृशी रूपव्यवस्थेति
पर्यवेक्षणमावस्माकं शरणम् । तथा च कृते शतृप्रत्ययः सानुनासिक
एवेति ज्ञायते । 'भृञ् भरणे' इति भौवादिकस्य धातोः
1
ग्रीकायां
लेतिनायां
गोथिकायां
फेरन्तोस्
फेरन्तिस्
बैरान्दिनुस्
इति च षष्ठयेकवचनं दृश्यते । अतः संस्कृते 'भरतः' इति षष्ठयेकवचने
अनुनासिको लुप्त इत्येव कल्पनमुचितमिति स्थितम् । सर्वनाम्नां प्रकृति-
रूपविचारः पूर्वमेव कृतः ।
कृत्सु तद्धितेषु च ये अव्ययसंज्ञकाः कृतास्ते क्रियाविशेषण-
शब्दाः । 'सुप्तिङन्तं पदं' इति द्विविधमेव पदमिति प्रतिज्ञानुरोधात्तेषां
पार्थक्यं न कृतवानाचार्यः । तेषु प्राग्दिशीयानां सुप्प्रक्रियासाम्यदर्शनाद्वि-
भक्तित्वमतिदिष्टं; कृदव्ययानां तु वस्तुत एव चतुर्थीद्वितीयादिविभक्तचा-
त्मकत्वं दर्शितमस्माभिः । तद्धिताव्ययानि सामान्यतो दिग्देशकालप्रकार-
चारतादात्म्यबोधकानि । अत्र 'इदमस्थमुः' (१५०६) इत्यादिकं सूत्र
मन्येषामप्युपलक्षणं मन्यामहे । सूत्रेऽस्मिन् ‘ति चेति वक्तव्यं' 'औपम्ये व '
इति वार्तिकद्वयमुपक्षिप्यते चेत् 'इति' 'इव' इत्यनयोरपि व्युत्पत्तिः
कथिता स्यात् ||
एवं नवोऽप्यागमिकाध्वपान्थैः पाश्चात्यवैयाकरणैः प्रदिष्टः ।
मार्गो मया संस्कृतशब्दशास्त्रे प्रचारितः पण्डितकौतुकाय ॥१॥
अनेन नव्यत्व विलासचारुणा पथा पुराणेन सुशीडितेन था।
प्रविश्य शब्दागमकोशमन्दिरं सुखेन रखानि हरन्तु बालकाः ॥ २॥
सिद्धान्तचर्चास्विव रूपसिद्धिक्रमागमादेरपि शोधनासु ।
उत्तेजिका स्याद्यदि शाब्दिकानामियं कृतिस्तर्हि कृती भवेयम् ॥ ३ ॥
संपूर्ण उत्तरखण्डः ।
॥ इति लघुपाणिनीयं समाप्तम् ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/१२७&oldid=347369" इत्यस्माद् प्रतिप्राप्तम्