पृष्ठम्:Laghu paniniyam vol2.djvu/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११४
|| शब्दव्युत्पत्तिः ।
'इष्टादिभ्यश्च' (५-२-८८) इति विहित इनिप्रत्ययस्तद्धितः कृत्प्रत्यय-
समानयोगक्षेमो दृश्यते । अनया नीत्या क्तवतुप्रत्ययोऽषि क्तप्रत्ययान्मतुपा
व्युत्पादनमर्हति । कृतपूर्वी कटं इतिवदेवहि कृतवान् कटं इत्यत्रापि
कारकसम्बन्धः ।
Sue
प्रस्तावेऽस्मिन्नतिशायनतद्धिता विमर्शमपेक्षन्ते । इष्ठनीयसुनौ तर-
प्तमपौ चेति द्विविधेषु तेषु प्रथमौ 'अजादी गुणवचनादेव, (१५१७) इति
गुणवाचिभ्यो भेदकेभ्य एव भवतः; 'तुरिष्ठेमेयस्सु' (१३४७) इति तृप्र-
त्ययलोपः, 'टे:' (१३४८) इति टिलोपः, 'विन्मतोर्लुक्' (१९९२), प्रिय-
स्थिरादीनां प्रस्थस्फाद्यादेशाः इत्यादयो बहवः प्रक्रियाविशेषाश्च तयोः
सन्ति । तरप्तमपौ तु सार्वत्रिकौ । इष्ठनीयसुनोः प्रक्रियागतिवैचित्र्ये
विचार्यमाणे तौ घातभ्य उत्पद्येते इति वक्तव्यमापतति । तथाहि
(१) भर्तृशब्दादिष्ठनीयसुनोः कृतयोस्तृलोपेन मरिष्ठ: भरीयान् इति
रूपम् । इदं भृधातोरञ्जसैव प्रत्ययकरणेऽपि समानम् | अतिशयेन यो
बिमर्ति स भरिष्ठ इति कृत्प्रत्ययनिर्विशेषमर्थश्च घटते । (२) कोपवच्छ-
ब्दादिष्ठान मतुब्लोपे कोपिष्ठ इति शब्दव्युत्पत्तिः कुपधातोरेवेष्ठानि कृतेऽपि
रूपेऽर्थे च युज्यते । (३) प्रियशब्दस्य प्रादेशेन निष्पादितः प्रेष्ठ इती-
ष्ठन् प्रीधातोरेव किञ्चित् प्रक्रियाविशेषेण सुशको निष्पादयितुम् ।
(४) ज्येष्ठशब्दव्युत्पादनाय वृद्धस्य ज्यादेशकल्पनतो 'ज्या वयोहानौ'
इति धातोरेव साक्षादिष्ठना तत्साधनं वरमिति सर्वोऽपि सम्मन्येत ।
(५) किञ्च गुणवचनेभ्योऽपि धातुस्पर्शहीनेभ्यः सुन्दरादिशब्देभ्यः
सुन्दरिष्ठः सुन्दरीयान् इतीष्ठनीयसुनौ न कोऽपि प्रयुते । 'बल जीवने'
'कृश तनूकरणे' इत्यादीनामाख्यातेष्वनुपलब्धानामपि घातूनां धातुपाठे
दर्शनात् बलिष्ठः बलीयान्, ऋशिष्ठः ऋशीयान् इत्यादीनामपि सुवचा धा-
तुभ्यो निष्पत्तिः । किं बहुना कोलाहलेन; इष्ठनीयसुनावुत्सर्गतो धातुभ्य
एवोत्पद्येते; एवं कृत्प्रत्ययाभ्यामप्याभ्यां, समानार्थयोस्तरप्तमपोरनुरोधेन,
पाणिनिस्तद्धितेषु पदं दत्वा विचित्राभिः प्रक्रियाभिस्तदुपष्टंभयतीत्येव ।
इष्ठनीयसुनौ लोके विरलौ । वेद एवानयोर्बहुलः प्रचारः । तत्र च

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/१२५&oldid=347367" इत्यस्माद् प्रतिप्राप्तम्